122-a
यामिनीहिङ्गुसिन्धूत्थक्षारसौवर्चलाभयाः ।
सुरामण्डेन पातव्या वातशूलनिषूदनाः ॥ ८ ॥
विश्वमेरण्डजं मूलं क्वाथयित्वा जलं पिवेत् ।
हिङ्गुसौवर्चलोपेतं सद्यः शूलनिवारणम् ॥ ९ ॥
हिङ्गुपुष्करमूलाभ्यां हिङ्गु सौवर्चलेन वा ।
विश्वैरण्डयवक्वाथः सद्यः शूलनिवारणः ।
तद्वद्रुबुयवक्वाथो हिङ्गुसौवर्चलान्वितः ॥ १० ॥
हिङ्ग्वम्लकृष्णालवणं यमानी-
क्षाराभयासैन्धवतुल्यभागम् ।
चूर्णं पिबेद्वारुणमण्डमिश्रं
शूले प्रवृद्धेऽनिलजे शिवाय ॥ ११ ॥
सौवर्चलाम्लिकाजाजीमरिचैर्द्विगुणोत्तरैः ।
मातुलुङ्गरसैः पिष्ट्वा गुडिकानिलशूलनुत् ॥ १२ ॥
हिङ्ग्वम्लवेतसव्योषयमानीलवणत्रिकैः ।
बीजपूररसोपेतैर्गुडिका वातशूलनुत् ॥ १३ ॥
बीजपूरकमूलं च घृतेन सह पाययेत् ।
जयेद्वातभवं शूलं कर्षमेकं प्रमाणतः ॥ १४ ॥
बिल्वमूलतिलैरण्डं पिष्ट्वा चाम्लतुषाम्भसा ।
गुडिकां भ्रामयेदुष्णां वातशूलविनाशिनीम् ॥ १५ ॥
तिलैश्च गुडिकां कृत्वा भ्रामयेज्जठरोपरि ।
गुडिका शमयत्येषा शूलं चैवातिदुःसहम् ॥ १६ ॥