Adhikāra 1
१गुणत्रयविभेदेन मूर्तित्रयमुपेयुषे ।
त्रयीभुवे त्रिनेत्राय त्रिलोकीपतये नमः ॥ १ ॥
नानायुर्वेदविख्यातसद्योगैश्चक्रपाणिना ।
क्रियते संग्रहो गूढवाक्यबोधकवाक्यवान् ॥ २ ॥
२रोगमादौ परीक्षेत ततोऽनन्तरमौषधम् ।
ततः कर्म भिषक् पश्चाज्ज्ञानपूर्वं समाचरेत् ॥ ३ ॥
नवज्वरे दिवास्वप्नस्नानाऽभ्यङ्गान्नमैथुनम् ।
क्रोधप्रवातव्यायामकषायांश्च विवर्जयेत् ॥ ४ ॥
३ज्वरे लङ्घनमेवादावुपदिष्टमृते ज्वरात् ।
क्षयाऽनिलभयक्रोधकामशोकश्रमोद्भवात् ॥ ५ ॥
आमाशयस्थो हत्वाग्निं सामो मार्गान्पिधापयन् ।
विदधाति ज्वरं दोषस्तस्माल्लङ्घनमाचरेत् ॥ ६ ॥
अनवस्थितदोषाग्नेर्लङ्घनं दोषपाचनम् ।
ज्वरघ्नं दीपनं काङ्क्षारुचिलाघवकारकम् ॥ ७ ॥
प्राणाविरोधिना चैनं लङ्घनेनोपपादयेत् ।
बलाधिष्ठानमारोग्यं यदर्थोऽयं क्रियाक्रमः ॥ ८ ॥
४तत्तु मारुतक्षुत्तृष्णामुखशोषभ्रमान्विते ।
कार्यं न बाले वृद्धे वा न गर्भिण्यां न दुर्बले ॥ ९ ॥
वातमूत्रपुरीषाणां विसर्गे गात्रलाघवे ।
हृदयोद्गारकण्ठास्यशुद्धौ तन्त्राक्लमे गते ॥ १० ॥
स्वेदे जातेऽरुचौ चापि क्षुत्पिपासासहोदये ।
कृतं लङ्घनमादेश्यं निर्व्यथे चान्तरात्मनि ॥ ११ ॥
पर्वभेदोऽङ्गमर्दश्च कासः शोषो मुखस्य च ।
क्षुत्प्रणाशोऽरुचिस्तृष्णा दौर्बल्यं श्रोत्रनेत्रयोः ॥ १२ ॥
मनसः संभ्रमोऽभीक्ष्णमूर्ध्ववातस्तमो हृदि ।
देहाग्निबलहानिश्च लङ्घनेऽतिकृते भवेत् ॥ १३ ॥
५सद्योभुक्तस्य वा जाते ज्वरे सन्तर्पणोत्थिते ।
वमनं वमनार्हस्य शस्तमित्याह वाग्भटः ॥ १४ ॥
कफप्रधानानुत्क्लिष्टान्दोषानामाशयस्थितान् ।
बुद्ध्वा ज्वरकरान्काले वम्यानां वमनैर्हरेत् ॥ १५ ॥
अनुपस्थितदोषाणां वमनं तरुणे ज्वरे ।
हृद्रोगं श्वासमानाहं मोहं च कुरुते भृशम् ॥ १६ ॥
तृष्यते सलिलं चोष्णं दद्याद्वातकफज्वरे ।
सद्योत्थे पैत्तिके चाथ शीतलं तिक्तकैः शृतम् ॥ १७ ॥
दीपनं पाचनं चैव ज्वरघ्नमुभयं च तत् ।
स्रोतसां शोधनं बल्यं रुचिस्वेदप्रदं शिवम् ॥ १८ ॥
६मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैः ।
शृतशीतं जलं दद्यात्पिपासाज्वरशान्तये ॥ १९ ॥
मुख्यभेषजसम्बन्धो निषिद्धस्तरुणे ज्वरे ।
तोयपेयादिसंस्कारे निर्दोषं तेन भेषजम् ॥ २० ॥
यदप्सु शृतशीतासु षडङ्गादि प्रयुज्यते ।
कर्षमात्रं ततो दत्त्वा साधयेत्प्रास्थिकेऽम्भसि ॥ २१ ॥
अर्धशृतं प्रयोक्तव्यं पाने पेयादिसंविधौ ।
वमितं लङ्घितं काले यवागूभिरुपाचरेत् ॥ २२ ॥
यथास्वौषधसिद्धाभिर्मण्डपूर्वाभिरादितः ।
लाजपेयां सुखजरां पिप्पलीनागरैः शृताम् ॥ २३ ॥
पिबेज्ज्वरी ज्वरहरां क्षुद्वानल्पाग्निरादितः ।
पेयां वा रक्तशालीनां पार्श्वबस्तिशिरोरुजि ॥ २४ ॥
श्वदंष्ट्राकण्टकारिभ्यां सिद्धां ज्वरहरां पिबेत् ।
कोष्ठे विबद्धे सरुचि पिबेत्पेयां शृतां ज्वरी ॥ २५ ॥
मृद्वीकापिप्पलीमूलचव्यचित्रकनागरैः ।
पञ्चमूल्या लघीयस्या गुर्व्या ताभ्यां सधन्यया ॥ २६ ॥
कणया यूषपेयादिं साधनं स्याद्यथाक्रमम् ।
वातपित्ते वातकफे त्रिदोषे श्लेष्मपित्तजे ॥ २७ ॥
यवागूः स्यात्त्रिदोषघ्नी व्याघ्रीदुस्पर्शगोक्षुरैः ।
कर्षार्धं वा कणाशुण्ठ्योः कल्कद्रव्यस्य वा पलम् ॥ २८ ॥
विनीय पाचयेद्युत्तया वारिप्रस्थेन चापराम् ।
षडङ्गपरिभाषैव प्रायः पेयादिसंमता ॥ २९ ॥
यवागूमुचिताद्भक्ताच्चतुर्भागकृतां वदेत् ।
3-a
७सिक्थकै रहितो मण्डः पेया सिक्थसमन्विता ॥ ३० ॥
यवागूर्बहुसिक्था स्याद्विलेपी विरलद्रवा ।
अन्नं पञ्चगुणे साध्यं विलेपी तु चतुर्गुणे ॥ ३१ ॥
मण्डश्चतुर्दशगुणे यवागूः षड्गुणेंऽम्भसि ।
पांशुधाने यथा वृष्टिः क्लेदयत्यतिकर्दमम् ॥ ३२ ॥
तथा श्लेष्मणि संवृद्धे यवागूः श्लेष्मवर्धिनी ।
गदात्यये मद्यनित्ये ग्रीष्मे पित्तकफाधिके ॥ ३३ ॥
ऊर्ध्वगे रक्तपित्ते च यवागूरहिता ज्वरे ।
तत्र तर्पणमेवाग्रे प्रदेयं लाजशक्तुभिः ॥ ३४ ॥
८ज्वरापहैः फलरसैर्युक्तं समधुशर्करम् ।
द्रवेणालोडितास्ते स्युस्तर्पणं लाजशक्तवः ॥ ३५ ॥
श्रमोपवासानिलजे हितो नित्यं रसौदनः ।
मुद्गयूषौदनश्चापि देयः कफसमुद्भवे ॥ ३६ ॥
स एव सितया युक्तः शीतपित्तज्वरे हितः ।
रक्तशाल्यादयः शस्ताः पुराणाः षष्टिकैः सह ॥ ३७ ॥
यवाग्वोदनलाजार्थे ज्वरितानां ज्वरापहाः ।
मुद्गामलकयूषस्तु वातपित्तात्मके हितः ॥ ३८ ॥
ह्रस्वमूलकयूषस्तु कफवातात्मके हितः ।
निम्बमूलकयूषस्तु हितः पित्तकफात्मके ॥ ३९ ॥
मुद्गान्मसूरांश्चणकान्कुलत्थांश्चाढकानपि ।
आहारकाले यूषार्थं ज्वरिताय प्रदापयेत् ॥ ४० ॥
पटोलपत्रं वार्ताकं कुलकं कारवेल्लकम् ।
कर्कोटकं पर्पटकं गोजिह्वां बालमूलकम् ॥ ४१ ॥
पत्रं गुडूच्याः शाकार्थं ज्वरिताय प्रदापयेत् ।
ज्वरितो हितमश्नीयाद्यद्यप्यस्यारुचिर्भवेत् ॥ ४२ ॥
अन्नकाले ह्यभुञ्जानः क्षीयते म्रियतेऽपि वा ।
९अरुचौ मातुलुङ्गस्य केसरं साज्यसैन्धवम् ॥ ४३ ॥
धात्रीद्राक्षासितानां वा कल्कमास्येन धारयेत् ।
सातत्यात्स्वाद्वभावाद्वा पथ्यं द्वेष्यत्वमागतम् ॥ ४४ ॥
कल्पनाविधिभिस्तैस्तैः प्रियत्वं गमयेत्पुनः ।
ज्वरितं ज्वरमुक्तं वा दिनान्ते भोजयेल्लघु ॥ ४५ ॥
श्लेष्मक्षये विवृद्धोष्मा बलवाननलस्तदा ।
गुर्वभिष्यन्द्यकाले च ज्वरी नाद्यात्कथंचन ॥ ४६ ॥
नहि तस्याहितं भुक्तमायुषे वा सुखाय वा ।
लङ्घनं स्वेदनं कालो यवाग्वस्तिक्तको रसः ॥ ४७ ॥
पाचनान्यविपक्वानां दोषाणां तरुणे ज्वरे ।
आसप्तरात्रं तरुणं ज्वरमाहुर्मनीषिणः ॥ ४८ ॥
मध्यं द्वादशरात्रं तु पुराणमत उत्तरम् ।
पाचनं शमनीयं वा कषायं पाययेत्तु तम् ॥ ४९ ॥
ज्वरितं षडहेऽतीते लघ्वन्नप्रतिभोजितम् ।
सप्ताहात्परतोऽस्तब्धे सामे स्यात्पाचनं ज्वरे ॥ ५० ॥
निरामे शमनं स्तब्धे सामे नौषधमाचरेत् ।
लालाप्रसेको हृल्लासहृदयाशुद्ध्यरोचकाः ॥ ५१ ॥
तन्त्रालस्याविपाकास्यवैरस्यं गुरुगात्रता ।
क्षुन्नाशो बहुमूत्रत्वं स्तब्धता बलवाञ्ज्वरः ॥ ५२ ॥
आमज्वरस्य लिङ्गानि न दद्यात्तत्र भेषजम् ।
भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम् ॥ ५३ ॥
मृदौ ज्वरे लघौ देहे प्रचलेषु मलेषु च ।
पक्वं दोषं विजानीयाज्ज्वरे देयं तदौषधम् ॥ ५४ ॥
१०नागरं देवकाष्ठं च धन्याकं बृहतीद्वयम् ।
दद्यात्पाचनकं पूर्वं ज्वरिताय ज्वरापहम् ॥ ५५ ॥
पीतांबुर्लङ्घितः क्षीणोजीर्णी भुक्तः पिपासितः ।
न पिबेदौषधं जन्तुः संशोधनमथेतरत् ॥ ५६ ॥
वीर्याधिकं भवति भेषजमन्नहीनं
हन्यात्तदामयमसंशयमाशु चैव ।
तद्बालवृद्धयुवतीमृदुभिश्च पीतं
ग्लानिं परां नयति चाशु बलक्षयं च ॥ ५७ ॥
अनुलोमोऽनिलः स्वस्थ्यं क्षुत्तृष्णासुमनस्कता ।
लघुत्वमिन्द्रियोद्गारशुद्धिजीर्णौषधाकृतिः ॥ ५८ ॥
क्लमो दाहाङ्गसदनं भ्रमो मूर्च्छा शिरोरुजा ।
अरतिर्बलहानिश्च सावशेषौषधाकृतिः ॥ ५९ ॥
औषधशेषे भुक्तं पीतं च तथौषधं सशेषेऽन्ने ।
प्रकरोति गदोपशमं प्रकोपयत्यन्यरोगांश्च ॥ ६० ॥
शीघ्रं विपाकमुपयाति बलं न हिंस्या-
दन्नावृतं न च मुहुर्वदनान्निरेति ।
प्राग्भूक्तसेवितमथौषधमेतदेव
दद्याच्च वृद्धशिशुभीरुवराङ्गनाभ्यः ॥ ६१ ॥
११मात्राया नास्त्यवस्थानं दोषमग्निं बलं वयः ।
व्याधिं द्रव्यं च कोष्ठं च वीक्ष्य मात्रां प्रयोजयेत् ॥ ६२ ॥
उत्तमस्य पलं मात्रा त्रिभिश्चाक्षैश्च मध्यमे ।
जघनस्य पलार्धेन स्नेहक्वाथ्यौषधेषु च ॥ ६३ ॥
कर्षादौ तु पलं यावद्दद्यात्षोडशिकं जलम् ।
ततस्तु कुडवं यावत्तोयमष्टगुणं भवेत् ॥ ६४ ॥
क्वाथ्यद्रव्यपले कुर्यात्प्रस्थार्धं पादशेषितम् ।
१२द्वात्रिंशन्माषकैर्माषश्चरकस्य तु तैः पलम् ॥ ६५ ॥
अष्टचत्वारिंशता स्यात्सुश्रुतस्य तु माषकः ।
द्वादशभिर्धान्यमाषैश्चतुःषष्ट्या तु तैः पलम् ॥ ६६ ॥
एतच्च तुलितं पञ्चरक्तिमाषात्मकं पलम् ।
चरकार्धपलोन्मानं चरके दशरक्तिकैः ॥ ६७ ॥
माषैः पलं चतुःषष्ट्या यद्भवेत्तत्तथेरितम् ।
तस्मात्पलं चतुःषष्ट्या माषकैर्दशरक्तिकैः ॥ ६८ ॥
चरकानुमतं वैद्यैश्चिकित्सासूपयुज्यते ।
5-b
१३बिल्वादिपञ्चमूलस्य क्वाथः स्याद्वातिके ज्वरे ॥ ६९ ॥
पाचनं पिप्पलीमूलं गुडूची विश्वजोऽथवा ।
किराताब्दामृतोदीच्यबृहतीद्वयगोक्षुरैः ॥ ७० ॥
सस्थिराकलसीविश्वैः क्वाथो वातज्वरापहः ।
रास्ना वृक्षादनी दारु सरलं सैलवालुकम् ॥ ७१ ॥
कषायः शर्कराक्षौद्रयुक्तो वातज्वरापहः ।
प्रक्षेपः पादिकः क्वाथ्यात्स्नेहे कल्कसमो मतः ॥ ७२ ॥
परिभाषामिमामन्ये प्रक्षेपेऽप्यूचिरे यथा ।
कर्षश्चूर्णस्य कल्कस्य गुटिकानां च सर्वशः ॥ ७३ ॥
द्रवशुक्त्या स लेढव्यः पातव्यश्च चतुर्द्रवः ।
मात्रा क्षौद्रघृतादीनां स्नेहे क्वाथेषु चूर्णवत् ॥ ७४ ॥
बिल्वादिपञ्चमूली च गुडूच्यामलके तथा ।
कुस्तुम्बुरुसमो ह्येष कषायो वातिके ज्वरे ॥ ७५ ॥
पिप्पलीशारिवाद्राक्षाशतपुष्पाहरेणुभिः ।
कृतः कषायः सगुडो हन्याच्छ्वसनजं ज्वरम् ॥ ७६ ॥
गुडूची शारिवा द्राक्षा शतपुष्पा पुनर्नवा ।
सगुडोऽयं कषायः स्याद्वातज्वरविनाशनः ॥ ७७ ॥
द्राक्षा गुडूची काश्मर्यं त्रायमाणाः सशारिवाः ।
निःक्वाथ्य सगुडं क्वाथं पिबेद्वातज्वरापहम् ॥ ७८ ॥
शतावरीगुडूचीभ्यां स्वरसो यन्त्रपीडितः ।
गुडप्रगाढः शमयेत्सद्योऽनिलकृतं ज्वरम् ॥ ७९ ॥
१४कलिङ्गं कट्फलं मुस्तं पाठां तिक्तकरोहिणीं ।
पक्वं सशर्करं पीतं पाचनं पैत्तिके ज्वरे ।
सक्षौद्रं पाचनं पैत्ते तिक्ताब्देन्द्रयवैः कृतम् ॥ ८० ॥
लोध्रोत्पलामृतापद्मशारिवाणां सशर्करः ।
क्वाथः पित्तज्वरं हन्यादथवा पर्पटोद्भवः ॥ ८१ ॥
पटोलयवनीक्वाथो मधुना मधुरीकृतः ।
तीव्रपित्तज्वरामर्दी पानात्तृड्दाहनाशनः ॥ ८२ ॥
दुरालभापर्पटकप्रियङ्गु-
भूनिम्बवासाकटुरोहिणीनाम् ।
जलं पिबेच्छर्करयावगाढं
तृष्णास्रपित्तज्वरदाहयुक्तः ॥ ८३ ॥
त्रायमाणा च मधुकं पिप्पलीमूलमेव च ।
किराततिक्तकं मुस्तं मधुकं सबिभीतकम् ॥ ८४ ॥
सशर्करं पीतमेतत्पित्तज्वरनिबर्हणम् ।
मृद्वीका मधुकं निम्बं कटुका रोहिणी समा ।
अवश्यायस्थितं पाक्यमेतत्पित्तज्वरापहम् ॥ ८५ ॥
एकः पर्पटकः श्रेष्ठः पित्तज्वरविनाशनः ।
किं पुनर्यदि युज्येत चन्दनोदीच्यनागरैः ॥ ८६ ॥
विश्वाम्बुपर्पटोशीरघनचन्दनसाधितम् ।
दद्यात्सुशीतलं वारि तृट्छर्दिज्वरदाहनुत् ॥ ८७ ॥
पर्पटामृतधात्रीणां क्वाथः पित्तज्वरापहः ।
द्राक्षारग्वधयोश्चापि काश्मर्याश्चाथवा पुनः ॥ ८८ ॥
द्राक्षाभयापर्पटकाब्दतिक्ता-
क्वाथं ससम्पाकफलं विदध्यात् ।
प्रलापमूर्च्छाभ्रमदाहशोष-
तृष्णान्विते पित्तभवे ज्वरे तु ॥ ८९ ॥
१५व्युषितं धन्याकजलं प्रातः पीतं सशर्करं पुंसां
अन्तर्दाहं शमयत्यचिराद्दूरप्ररूढमपि ॥ ९० ॥
पित्तज्वरेण तप्तस्य क्रियां शीतां समाचरेत् ।
विदारी दाडिमं लोध्रं दधित्थं बीजपूरकम् ॥ ९१ ॥
एभिः प्रदिह्यान्मूर्धानं तृड्दाहार्तस्य देहिनः ।
घृतभृष्टाम्लपिष्टा च धात्रीलेपाच्च दाहनुत् ॥ ९२ ॥
अम्लपिष्टैः सुशीतैर्वा पलाशतरुजैर्लिहेत् ।
बदरीपल्लवोत्थेन फेनेनारिष्टकस्य च ॥ ९३ ॥
कालेयचन्दनानन्तायष्टीबदरकाञ्जिकैः ।
सघृतैः स्याच्छिरोलेपस्तृष्णादाहार्तिशान्तये ॥ ९४ ॥
उत्तानसुप्तस्य गभीरताम्र-
कांस्यादिपात्रं प्रणिधाय नाभौ ।
तत्राम्बुधाराबहुला पतन्ती
निहन्ति दाहं त्वरितं सुशीता ॥ ९५ ॥
शीतकाञ्जिकवस्त्रावगुण्ठनं दाहनाशनम् ।
जिह्वातालुगलक्लोमशोषे मूर्ध्नि तु दापयेत् ।
केशरं मातुलुङ्गस्य मधुसैन्धवसंयुतम् ॥ ९६ ॥
१६मातुलुङ्गशिफाविश्वब्राह्मीग्रन्थिकसंभवम् ।
कफज्वरेऽम्बु सक्षारं पाचनं वा कणादिकम् ॥ ९७ ॥
पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम् ।
मरिचैलाजमोदेन्द्रपाठारेणुकजीरकम् ॥ ९८ ॥
भार्गी महानिम्बफलं हिङ्गुरोहिणिसर्षपम् ।
विडङ्गातिविषे मूर्वा चेत्ययं कीर्तितो गणः ॥ ९९ ॥
पिप्पल्यादिः कफहरः प्रतिश्यारोचकानिलान् ।
निहन्याद्दीपनो गुल्मशूलघ्नस्त्वामपाचनः ॥ १०० ॥
कटुकं चित्रकं निम्बं हरिद्रातिविषे वचाम् ।
कुष्ठमिन्द्रयवं मूर्वां पटोलं चापि साधितम् ॥ १०१ ॥
पिबेन्मरिचसंयुक्तं सक्षौद्रं श्लैष्मिके ज्वरे ।
निम्बविश्वामृतादारु शटीभूनिम्बपौष्करम् ॥ १०२ ॥
पिप्पल्यौ बृहती चेति क्वाथो हन्ति कफज्वरम् ।
सिन्धुवारदलक्वाथं शोषणं कफजे ज्वरे ॥ १०३ ॥
जङ्घयोश्च बले क्षीणे कर्णे वा पिहिते पिबेत् ।
आमलक्यभया कृष्णा चित्रकश्चेत्ययं गणः ।
सर्वज्वरकफातङ्कभेदी दीपनपाचनः ॥ १०४ ॥
त्रिफलापटोलवासा
च्छिन्नरुहातिक्तरोहिणीषड्ग्रन्थाः ।
मधुना श्लेष्मसमुत्थे
दशमूलीवासकस्य वा क्वाथः ॥ १०५ ॥
मुस्तं वत्सकबीजानि त्रिफला कटुरोहिणी ।
परूषकाणि च क्वाथः कफज्वरविनाशनः ॥ १०६ ॥
१७कट्फलं पौष्करं शृङ्गी कृष्णा च मधुना सह ।
कासश्वासज्वरहरः श्रेष्ठो लेहः कफान्तकृत् ॥ १०७ ॥
कर्षश्चूर्णस्य कल्कस्य गुटिकानां च सर्वशः ।
द्रवशुक्त्या स लेढव्यः पातव्यश्च चतुर्द्रवः ॥ १०८ ॥
ऊर्ध्वजत्रुगरोगघ्नी सेयं स्यादवलेहिका ।
अधोरोगहरी या तु सा पूर्वं भोजनान्मता ॥ १०९ ॥
क्षौद्रोपकुल्यासंयोगः कासश्वासज्वरापहः ।
प्लीहानं हन्ति हिक्कां च बालानां च प्रशस्यते ॥ ११० ॥
संसृष्टदोषेषु हितं संसृष्टमथ पाचनम् ।
१८विश्वामृताब्दभूनिम्बैः पञ्चमूलीसमन्वितैः ।
कृतः कषायो हन्त्याशु वातपित्तोद्भवं ज्वरम् ॥ १११ ॥
त्रिफलाशाल्मलीरास्नाराजवृक्षापरूषकैः ।
शृतमम्बु हरेत्तूर्णं वातपित्तोद्भवं ज्वरम् ॥ ११२ ॥
किराततिक्तममृताद्राक्षामामलकीं शठीम् ।
निःक्वाथ्य पित्तानिलजे क्वाथं तं सगुडं पिबेत् ॥ ११३ ॥
१९निदिग्धिकाबलारास्नात्रायमाणमृतायुतैः ।
मसूरविदलैः क्वाथो वातपित्तज्वरं जयेत् ॥ ११४ ॥
गुडूची पर्पटं मुस्तं किरातं विश्वभेषजम् ।
वातपित्तज्वरे देयं पञ्चभद्रमिदं शुभम् ॥ ११५ ॥
मधुकं सारिवे द्राक्षा मधुकं चन्दनोत्पलम् ।
काश्मरी पद्मकं लोध्रं त्रिफलां पद्मकेशरम् ॥ ११६ ॥
परूषकं मृणालं च न्यसेदुत्तमवारिणि ।
मधुलाजसितायुक्तं तत्पीतमुषितं निशि ॥ ११७ ॥
वातपित्तज्वरं दाहतृष्णामूर्च्छावमिभ्रमान् ।
शमयेद्रक्तपित्तं च जीमूतानिव मारुतः ॥ ११८ ॥
२०पटोलं चन्दनं मूर्वा तिक्ता पाठामृतागणः ।
पित्तश्लेष्मारुचिच्छर्दिज्वरकण्डूविषापहः ॥ ११९ ॥
गुडूची निम्बधान्याकं पद्मकं चन्दनानि च ।
एष सर्वज्वरान्हन्ति गुडूच्यादिस्तु दीपनः ।
हृल्लासारोचकच्छर्दिपिपासादाहनाशनः ॥ १२० ॥
२१किरातं नागरं मुस्तं गुडूचीं च कफाधिके ।
पाठोदीच्यामृणालैस्तु सह पित्ताधिके पिबेत् ॥ १२१ ॥
२२कण्टकार्यमृता भांर्गी नागरेन्द्रयवासकम् ।
भूनिम्बं चन्दनं मुस्तं पटोलं कटुरोहिणी ॥ १२२ ॥
काषायं पाययेदेतत्पित्तश्लेष्मज्वरापहम् ।
दाहतृष्णारुचिच्छर्दिकासहृत्पार्श्वशूलनुत् ॥ १२३ ॥
सपत्रपुष्पवासाया रसः क्षौद्रसितायुतः ।
कफपित्तज्वरं हन्ति सास्रपित्तं सकामलम् ॥ १२४ ॥
पटोलं पिचुमर्दश्च त्रिफला मधुकं बला ।
साधितोऽयं कषायः स्यात्पित्तश्लेष्मोद्भवे ज्वरे ॥ १२५ ॥
२३गुडूचीन्द्रयवारिष्टपटोलं कटुरोहिणी ।
नागरं चन्दनं मुस्तं पिप्पलीचूर्णसंयुतम् ॥ १२६ ॥
अमृताष्टक इत्येष पित्तश्लेष्मज्वरापहः ।
हृल्लासारोचकच्छर्दितृष्णादाहनिवारणः ॥ १२७ ॥
पटोलयवधन्याकं मुद्गामलकचन्दनम् ।
पैत्तिके श्लेष्मपित्तोत्थे ज्वरे तृट्च्छर्दिदाहनुत् ॥ १२८ ॥
क्षुद्रामृताभ्यां सह नागरेण
सपौष्करं चैव किराततिक्तम् ।
पिबेत्कषायं त्विह पञ्चतिक्तं
ज्वरं निहन्त्यष्टविधं समग्रम् ॥ १२९ ॥
२४सशर्करामक्षमात्रां कटुकामुष्णवारिणा ।
पीत्वा ज्वरे जयेज्जन्तुः कफपित्तसमुद्भवम् ॥ १३० ॥
दीपनं कफविच्छेदि वातपित्तानुलोमनम् ।
ज्वरघ्नं पाचनं भेदि शृतं धान्यपटोलयोः ॥ १३१ ॥
कफवातज्वरे स्वेदान्कारयेद्रूक्षनिर्मितान् ।
स्रोतसां मार्दवं कृत्वा नीत्वा पावकमाशयम् ॥
हत्वा वातकफस्तम्भं स्वेदो ज्वरमपोहति ॥ १३२ ॥
खर्परभृष्टपटस्थितकाञ्जिकसिक्तो हि बालुकास्वेदः ।
शमयति वातकफामयमस्तकशूलाङ्गभङ्गादीन् ॥ १३३ ॥
मुस्तनागरभूनिम्बं त्रयमेतत्त्रिकार्षिकम् ।
कफवातामशमनं पाचनं ज्वरनाशनम् ॥ १३४ ॥
२५पिप्पलीपिप्पलीमूलचव्यचित्रकनागरम् ।
दीपनीयः स्मृतो वर्गः कफानिलगदापहः ॥ १३५ ॥
पिप्पलीभिः शृतं तोयमनभिष्यन्दि दीपनम् ।
वातश्लेष्मविकारघ्नं प्लीहज्वरविनाशनम् ॥ १३६ ॥
आरग्वधग्रन्थिकमुस्ततिक्ता-
हरीतकीभिः क्वथितः कषायः ।
सामे सशूले कफवातयुक्ते
ज्वरे हितो दीपनपाचनश्च ॥ १३७ ॥
२६क्षुद्रामृतानागरपुष्कराह्वयैः
कृतः कषायः कफमारुतोद्भवे
सश्वासकासारुचिपार्श्वरुक्करे
ज्वरे त्रिदोषप्रभवे च शस्यते ॥ १३८ ॥
२७दशमूलीरसः पेयः कणायुक्तः कफानिले ।
अविपाकेऽतिनिद्रायां पार्श्वरुक्श्वासकासके ॥ १३९ ॥
मुस्तं पर्पटकः शुण्ठी गुडूची सदुरालभा ।
कफवातारुचिच्छर्दिदाहशोषज्वरापहः ॥ १४० ॥
दारुपर्पटभांर्ग्यब्दवचाधान्यककट्फलैः ।
साभयाविश्वभूतिक्तैः क्वाथो हिङ्गुमधूत्कटः ॥ १४१ ॥
कफवातज्वरे पीतो हिक्काश्वासगलग्रहान् ।
कासशोषप्रसेकांश्च हन्यात्तरुमिवाशनिः ॥ १४२ ॥
मात्राक्षौद्रघृतादीनां स्नेहे क्वाथेषु चूर्णवत् ।
माक्षिकं हिङ्गु सिन्धूत्थं जरणाद्यास्तु शाणिकाः ॥ १४३ ॥
मातुलुङ्गफलकेशरो धृतः
सिन्धुजन्ममरिचान्वितो मुखे ।
हन्ति वातकफरोगमास्यगं
शोषमाशु जडतामरोचकम् ॥ १४४ ॥
२८लङ्घनं बालुकास्वेदो नस्यं निष्ठीवनं तथा ।
अवलेहोऽञ्जनं चैव प्राक्प्रयोज्यं त्रिदोषजे ॥ १४५ ॥
सन्निपातज्वरे पूर्वं कुर्यादामकफापहम् ।
पश्चाच्छ्लेष्मणि संक्षीणे शमयेत्पित्तमारुतौ ॥ १४६ ॥
त्रिरात्रं पञ्चरात्रं वा दशरात्रमथापि वा ।
लङ्घनं सन्निपातेषु कुर्यादारोग्यदर्शनात् ॥ १४७ ॥
दोषाणामेव सा शक्तिर्लङ्घने या सहिष्णुता ।
नहि दोषक्षये कश्चित्सहते लङ्घनादिकम् ॥ १४८ ॥
आर्द्रकस्वरसोपेतं सैन्धवं सकटुत्रिकम् ।
आकण्ठं धारयेदास्ये निष्ठीवेच्च पुनः पुनः ॥ १४९ ॥
तेनास्यहृदयाच्छ्लेष्मामन्यापार्श्वशिरोगलान् ।
लीनोऽप्याकृष्यते शुष्को लाघवं चास्य जायते ॥ १५० ॥
पर्वभेदोऽङ्गमर्दश्च मूर्च्छाकासगलामयाः ।
मुखाक्षिगौरवं जाड्यमुत्क्लेशश्चोपशाम्यति ॥ १५१ ॥
सकृद्द्वित्रिचतुः कुर्याद्दृष्ट्वा दोषबलाबलम् ।
एतद्धि परमं प्राहुर्भेषजं सन्निपातिनाम् ॥ १५२ ॥
मातुलुङ्गार्द्रकरसं कोष्णं त्रिलवणान्वितम् ।
अन्यद्वा सिद्धिविहितं तीक्ष्णं नस्यं प्रयोजयेत् ॥ १५३ ॥
तेन प्रभिद्यते श्लेष्मा प्रभिन्नश्च प्रसिच्यते ।
शिरोहृदयकण्ठास्यपार्श्वरुक् चोपशाम्यति ॥ १५४ ॥
२९मधूकसारसिन्धूत्थवचोषणकणाः समाः ।
श्लक्ष्णं पिष्ट्वाम्भसा नस्यं कुर्यात्संज्ञाप्रबोधनम् ॥ १५५ ॥
सैन्धवं श्वेतमरिचं सर्षपं कुष्ठमेव च ।
बस्तमूत्रेण पिष्टानि नस्यं तन्द्रीनिवारणम् ॥ १५६ ॥
शिरीषबीजगोमूत्रकृष्णामरिचसैन्धवैः ।
अञ्जनं स्यात्प्रबोधाय सरसोनशिलावचैः ॥ १५७ ॥
३०कट्फलं पौष्करं शृङ्गी व्योषं यासश्च कारवी ।
श्लक्ष्णचूर्णीकृतं चैतन्मधुना सह लेहयेत् ॥ १५८ ॥
एषावलेहिका हन्ति सन्निपातं सुदारुणम् ।
हिक्कां श्वासं च कासं च कण्ठरोगं नियच्छति ॥ १५९ ॥
ऊर्ध्वगश्लेष्महरणे उष्णस्वेदादिकर्मणि ।
विरोध्युष्णे मधु त्यक्त्वा कार्यैषार्द्रकजै रसैः ॥ १६० ॥
३१यवकोलकुलत्थानां मुद्गमूलकखण्डयोः ।
एकैकमुष्टिमाहृत्य पचेदष्टगुणे जले ॥ १६१ ॥
पञ्चमुष्टिक इत्येष वातपित्तकफापहः ।
शस्यते गुल्मशूले च श्वासे कासे क्षये ज्वरे ॥ १६२ ॥
३२पञ्चमूलीकिरातादिर्गणो योज्यस्त्रिदोषजे ।
पित्तोत्कटे च मधुना कणया च कफोत्कटे ॥ १६३ ॥
३३बिल्वस्योनाकगम्भारीपाटलागणिकारिकाः ।
दीपनं कफवातघ्नं पञ्चमूलमिदं महत् ॥ १६४ ॥
शालिपर्णी पृश्निपर्णी बृहतीद्वयगोक्षुरम् ।
वातपित्तहरं वृष्यं कनीयः पञ्चमूलकम् ॥ १६५ ॥
उभयं दशमूलं तु सन्निपातज्वरापहम् ।
कासे श्वासे च तन्द्रायां पार्श्वशूले च शस्यते ।
पिप्पलीचूर्णसंयुक्तं कण्ठहृद्ग्रहनाशनम् ॥ १६६ ॥
३४चिरज्वरे वातकफोल्बणे वा
त्रिदोषजे वा दशमूलमिश्रः ।
किराततिक्तादिगणः प्रयोज्यः
शुद्ध्यर्थिने वा विवृताविमिश्रः ॥ १६७ ॥
३५दशमूली शठी शृङ्गी पौष्करं सदुरालभम् ।
भांर्गी कुटजबीजं च पटोलं कटुरोहिणी ॥ १६८ ॥
अष्टादशाङ्ग इत्येष सन्निपातज्वरापहः ।
कासहृद्ग्रहपार्श्वार्तिश्वासहिक्कावमीहरः ॥ १६९ ॥
भूनिम्बदारुदशमूलमहौषधाब्द-
तिक्तेन्द्रबीजधनिकेभकणाकषायः ।
तन्त्रीप्रलापकसनारुचिदाहमोह-
श्वासादियुक्तमखिलं ज्वरमाशु हन्ति ॥ १७० ॥
३६मुस्तपर्पटकोशीरदेवदारुमहौषधम् ।
त्रिफलाधन्वयासश्च नीलीकम्पिल्लकं त्रिवृत् ॥ १७१ ॥
किराततिक्तकं पाठा बला कटुकरोहिणी ।
मधुकं पिप्पलीमूलं मुस्ताद्यो गण उच्यते ॥ १७२ ॥
अष्टादशाङ्गमुदितमेतद्वा सन्निपातनुत् ।
पित्तोत्तरे सन्निपाते हितं चोक्तं मनीषिभिः ॥
मन्यास्तम्भे उरोघाते उरःपार्श्वशिरोग्रहे ॥ १७३ ॥
३७शठीपुष्करमूलं च व्याघ्री शृङ्गी दुरालभा ।
गुडूची नागरं पाठा किरातं कटुरोहिणी ॥ १७४ ॥
एष शठ्यादिको वर्गः सन्निपातज्वरापहः ।
कासहृद्ग्रहपार्श्वार्तिश्वासे तन्द्र्यां च शस्यते ॥ १७५ ॥
३८बृहत्यौ पुष्करं भांर्गी शठी शृङ्गी दुरालभा ।
वत्सकस्य च बीजानि पटोलं कटुरोहिणी ॥ १७६ ॥
बृहत्यादिर्गणः प्रोक्तः सन्निपातज्वरापहः ।
कासादिषु च सर्वेषु देयः सोपद्रवेषु च ॥ १७७ ॥
३९भांर्गी पुष्करमूलं च रास्नां बिल्वं यवानिकाम् ।
नागरं दशमूलं च पिप्पलीं चाप्सु साधयेत् ॥ १७८ ॥
सन्निपातज्वरे देयं हृत्पार्श्वानाहशूलिनाम् ।
कासश्वासाग्निमन्दत्वं तन्द्रीं च विनिवर्तयेत् ॥ १७९ ॥
द्विपञ्चमूली षड्ग्रन्था विश्वगृध्रनखीद्वयात् ।
कफवातहरः क्वाथः सन्निपातहरः परः ॥ १८० ॥
कारवीपुष्करैरण्डत्रायन्तीनागरामृताः ।
दशमूलीशठीशृङ्गीयासभांर्गीपुनर्नवाः ॥ १८१ ॥
तुल्या मूत्रेण निःक्वाथ्य पीताः स्रोतोविशोधनाः ।
अभिन्यासज्वरं घोरमाशु घ्नन्ति समुद्धतम् ॥ १८२ ॥
मातुलुङ्गाश्वभिद्बिल्वव्याघ्रीपाठोरुबूकजः ।
क्वाथोलवणमूत्राढ्योऽभिन्यासानाहशूलनुत् ॥ १८३ ॥
निद्रोपेतमभिन्यासं क्षीणं विद्याद्धतौजसम् ।
कण्ठरोधकफश्वासहिक्कासंन्यासपीडितः ॥ १८४ ॥
मातुलुङ्गार्द्रकरसं दशमूलाम्भसा पिबेत् ।
व्योषाब्दत्रिफलातिक्तापटोलारिष्टवासकैः ॥ १८५ ॥
सभूनिम्बामृतायासैस्त्रिदोषज्वरनुज्जलम् ।
13-a
४०त्रिवृद्विशालात्रिफला कटुकारग्वधैः कृतः ॥ १८६ ॥
सक्षारो भेदनः क्वाथः पेयः सर्वज्वरापहः ।
स्वेदोद्गमे ज्वरे देयश्चूर्णो भृष्टकुलत्थजः ॥ १८७ ॥
घर्षेज्जिह्वां जडां सिन्धुत्र्यूषणैः साम्लवेतसैः ।
उच्छुष्कां स्फुटितां जिह्वां द्राक्षया मधुपिष्टया ॥ १८८ ॥
लेपयेत्सघृतं चास्यं सन्निपातात्मके ज्वरे ।
काकजङ्घा जटा निद्रां जनयेच्छिरसि स्थिता ॥ १८९ ॥
सन्निपाते प्रकम्पन्तं प्रलपन्तं न बृंहयेत् ।
तृष्णादाहाभिभूतेऽपि न दद्याच्छीतलं जलम् ॥ १९० ॥
सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः ।
शोथः संजायते तेन कश्चिदेव प्रमुच्यते ॥ १९१ ॥
रक्तावसेचनैः पूर्वं सर्पिःपानैश्च तं जयेत् ।
प्रदेहैः कफपित्तघ्नैर्वमनैः कवलग्रहैः ॥ १९२ ॥
गैरिकं पांशुकं शुण्ठीवचाकटुककाञ्जिकैः ।
कर्णशोथहरो लेपः सन्निपातज्वरे भृशम् ॥ १९३ ॥
कुलत्थकट्फले शुण्ठी कारवी च समांशकैः ।
सुखोष्णैर्लेपनं कार्यं कर्णमूले मुहुर्मुहुः ॥ १९४ ॥
४१निदिग्धिकानागरकामृतानां
क्वाथं पिबेन्मिश्रितपिप्पलीकम् ।
जीर्णज्वरारोचककासशूल-
श्वासाग्निमान्द्यार्दितपीनसेषु ॥ १९५ ॥
हन्त्यूर्ध्वगामयं प्रायः सायं तेनोपयुज्यते ।
पिप्पलीचूर्णसंयुक्तः क्वाथश्छिन्नरुहोद्भवः ॥ १९६ ॥
जीर्णज्वरकफध्वंसी पञ्चमूलीकृतोऽथवा ।
कासाजीर्णारुचिश्वासहृत्पाण्डुक्रिमिरोगनुत् ॥ १९७ ॥
जीर्णे ज्वरेऽग्निसादे च शस्यते गुडपिप्पली ।
कलिङ्गकाः पटोलस्य पत्रं कटुकरोहिणी ॥ १९८ ॥
पटोलं शारिवा मुस्तं पाठा कटुकरोहिणी ।
निम्बं पटोलं त्रिफला मृद्वीका मुस्तवत्सकौ ॥ १९९ ॥
किराततिक्तममृता चन्दनं विश्वभेषजम् ।
गुडूच्यामलकं मुस्तमर्धश्लोकसमापनाः ॥ २०० ॥
कषायाः शमयन्त्याशु पञ्च पञ्च विधाञ्ज्वरान् ।
सन्ततं सततान्येद्युस्तृतीयकचतुर्थकान् ॥ २०१ ॥
गुडप्रगाढां त्रिफलां पिबेद्वा विषमार्दितः ।
दीर्घपत्रककर्णाख्यं नेत्रं खदिरसंयुतम् ॥ २०२ ॥
ताम्बूलैस्तद्दिने भुक्तं प्रातर्विषमनाशनम् ।
गुडूचीमुस्तधात्रीणां कषायं वा समाक्षिकम् ॥ २०३ ॥
४२मुस्तामलकगुडूची-
विश्वौषधकण्टकारिकाक्वाथः ।
पीतः सकणाचूर्णः
समधुर्विषमज्वरं हन्ति ॥ २०४ ॥
महौषधामृतामुस्तचन्दनोशीरधान्यकैः ।
क्वाथस्तृतीयकं हन्ति शर्करामधुयोजितः ॥ २०५ ॥
वासाधात्र्युशीरादारुपथ्यानागरसाधितः ।
सितामधुयुतः क्वाथश्चातुर्थकनिवारणः ॥ २०६ ॥
मधुना सर्वज्वरनुच्छेफालीदलजो रसः ।
अजाजी गुडसंयुक्ता विषमज्वरनाशिनी ।
अग्निसादं जयेत्सम्यक् वातरोगांश्च नाशयेत् ॥ २०७ ॥
रसोनकल्कं तिलतैलमिश्रं
योऽश्नाति नित्यं विषमज्वरार्तः ।
विमुच्यते सोऽप्यचिराज्ज्वरेण
वातामयैश्चापि सुघोररूपैः ॥ २०८ ॥
प्रातः प्रातः ससर्पिर्वा रसोनमुपयोजयेत् ।
पिप्पलीं वर्धमानां वा पिबेत्क्षीररसाशनः ॥ २०९ ॥
षट्पलं वा पिबेत्सर्पिः पथ्यां वा मधुना पिबेत् ।
पयस्तैलं घृतं चैव विदारीक्षुरसं मधु ॥ २१० ॥
संमर्द्य पाययेदेतद्विषमज्वरनाशनम् ।
पिप्पली शर्करा क्षौद्रं घृतं क्षीरं यथाबलम् ॥ २११ ॥
खजेन मथितं पेयं विषमज्वरनाशनम् ।
पयसा वृषदंशस्य शकृद्वेगागमे पिबेत् ॥ २१२ ॥
वृषस्य दधिमण्डेन सुरया वा ससैन्धवम् ।
नीलिनीमजगन्धां च त्रिवृतां कटुरोहिणीम् ॥ २१३ ॥
पिबेज्ज्वरस्यागमने स्नेहस्वेदोपपादितः ।
सुरां समण्डां पानार्थे भक्षार्थे चरणायुधान् ॥ २१४ ॥
तित्तिरींश्च मयूरांश्च प्रयुञ्ज्याद्विषमज्वरे ।
अम्लोटजसहस्रेण दलेन सुकृतां पिबेत् ॥ २१५ ॥
पेयां घृतप्लुतां जन्तुश्चातुर्थकहरां त्र्यहम् ।
सैन्धवं पिप्पलीनां च तण्डुलाः समनःशिलाः ॥ २१६ ॥
नेत्राञ्जनं तैलपिष्टं विषमज्वरनाशनम् ।
व्याघ्रीरसाहिङ्गुसमा नस्यं तद्वत्ससैन्धवा ॥ २१७ ॥
कृष्णाम्बरदृढाबद्धं गुग्गुलूलूकपुच्छजः ।
धूपश्चातुर्थकं हन्ति तमः सूर्य इवोदितः ॥ २१८ ॥
शिरीषपुष्पस्वरसो रजनीद्वयसंयुतः ।
नस्यं सर्पिःसमायोगाच्चातुर्थकज्वरं जयेत् ॥ २१९ ॥
४३नस्यं चातुर्थकं हन्ति रसो वागस्त्यपत्रजः ।
पलङ्कषा निम्बपत्रं वचा कुष्ठं हरीतकी ॥ २२० ॥
सर्षपाः सयवाः सर्पिर्धूपनं ज्वरनाशनम् ।
पुरध्यामवचासर्जनिम्बार्कागुरुदारुभिः ॥ २२१ ॥
सर्वज्वरहरो धूपः कार्योऽयमपराजितः ।
वैडालं वा शकृद्योज्यं वेपमानस्य धूपने ॥ २२२ ॥
अपामार्गजटा कट्यां लोहितैः सप्ततन्तुभिः ।
बद्धा वारे रवेस्तूर्णं ज्वरं हन्ति तृतीयकम् ॥ २२३ ॥
काकजङ्घा बला श्यामा ब्रह्मदण्डा कृताञ्जलिः ।
पृश्निपर्णी त्वपामार्गस्तथा भृङ्गरजोऽष्टमः ॥ २२४ ॥
एषामन्यतनं मूलं पुष्पेणोद्धृत्य यत्नतः ।
रक्तसूत्रेण संवेष्ट्य बद्धमैकाहिकं जयेत् ॥ २२५ ॥
मूलं जयन्त्याः शिरसा धृतं सर्वज्वरापहम् ।
कर्मसाधारणं जह्यात्तृतीयकचतुर्थकौ ॥ २२६ ॥
आगन्तुरनुबन्धी हि प्रायशा विषमज्वरे ।
४४गङ्गाया उत्तरे कूले अपुत्रस्तापसो मृतः ॥ २२७ ॥
तस्मै तिलोदकं दद्यान्मुच्यत्येकाहिको ज्वरः ।
एतन्मन्त्रेण चाश्वत्थपत्रहस्तः प्रतर्पयेत् ॥ २२८ ॥
सोमं सानुचरं देवं समातृगणमीश्वरम् ।
पूजयन्प्रयतः शीघ्रं मुच्यते विषमज्वरात् ॥ २२९ ॥
विष्णुं सहस्रमूर्धानं चराचरपतिं विभुम् ।
स्तुवन्नामसहस्रेण ज्वरान्सर्वान्व्य पोहति ॥ २३० ॥
४५ज्वराः कषायैर्वनमैर्लङ्घनैर्लघुभोजनैः ।
रुक्षस्य येन शाम्यन्ति सर्पिस्तेषां भिषग्जितम् ॥ २३१ ॥
निर्दशाहमपि ज्ञात्वा कफोत्तरमलङ्घितम् ।
न सर्पिः पाययेत्प्राज्ञः शमनैस्तमुपाचरेत् ॥ २३२ ॥
४६यावल्लघुत्वादशनं दद्यान्मांसरसेन तु ।
मांसार्थमेणलावादीन्युक्त्या दद्याद्विचक्षणः ॥ २३३ ॥
कुक्कुटांश्च मयूरांश्च तित्तिरिं क्रौञ्चमेव च ।
गुरूष्णत्वान्न शंसन्ति ज्वरे केचिच्चिकित्सकाः ॥ २३४ ॥
लङ्घनेनानिलबलं ज्वरे यद्यधिकं भवेत् ।
भिषङ्मात्राविकल्पज्ञो दद्यात्तानपि कालवित् ॥ २३५ ॥
पिप्पल्यश्चन्दनं मुस्तमुशीरं कटुरोहिणी ।
कलिङ्गकास्तामलकी शारिवातिविषे स्थिरा ॥ २३६ ॥
द्राक्षामलकबिल्वानि त्रायमाणा निदिग्धिका ।
सिद्धमेतैर्घृतं सद्यो ज्वरं जीर्णमपोहति ॥ २३७ ॥
क्षयं कासं शिरःशूलं पार्श्वशूलं हलीमकम् ।
अङ्गाभितापमग्निं च विषमं सन्नियच्छति ॥ २३८ ॥
पिप्पल्याद्यमिदं क्वापि तन्त्रे क्षीरेण पच्यते ।
यत्राधिकरणे नोक्तिर्गणे स्यात्स्नेहसंविधौ ॥ २३९ ॥
तत्रैव कल्कनिर्यूहाविष्येते स्नेहवेदिना ।
एतद्वाक्यबलेनैव कल्कसाध्यं परं घृतम् ॥ २४० ॥
४७जलस्नेहौषधानां तु प्रमाणं यत्र नेरितम् ।
तत्र स्यादौषधात्स्नेहः स्नेहात्तोयं चतुर्गुणम् ॥ २४१ ॥
अनुक्ते द्रवकार्ये तु सर्वत्र सलिलं मतम् ।
घृततैलगुडादींश्च नैकाहादवतारयेत् ॥ २४२ ॥
व्युषितास्तु प्रकुर्वन्ति विशेषेण गुणान्यतः ।
स्नेहकल्को यदाङ्गुल्यावर्तितो वर्तिवद्भवेत् ॥ २४३ ॥
वह्नौ क्षिप्ते च नो शब्दस्तदा सिद्धिं विनिर्दिशेत् ।
शब्देऽप्युपरमं प्राप्ते फेनस्योपरमे तथा ॥ २४४ ॥
गन्धवर्णरसादीनां सम्पत्तौ सिद्धिमादिशेत् ।
४८पञ्चकोलैः ससिन्धूत्थैः पलिकैः पयसा समम् ॥ २४५ ॥
सर्पिःप्रस्थं शृतं प्लीहविषमज्वरगुल्मनुत् ।
अत्र द्रवान्तरानुक्ते क्षीरमेव चतुर्गुणम् ॥ २४६ ॥
द्रवान्तरेण योगे हि क्षीरं स्नेहसमं भवेत् ।
17-a
४९दशमूलीरसे सर्पिः सक्षीरे पञ्चकोलकैः ॥ २४७ ॥
सक्षारैर्हन्ति तत्सर्वं ज्वरकासाग्निमन्दताः ।
वातपित्तकफव्याधीन्प्लीहानं चापि पाण्डुताम् ॥ २४८ ॥
क्वाथ्याच्चतुर्गुणं वारि पादस्थं स्याच्चतुर्गुणम् ।
स्नेहात्स्नेहसमं क्षीरं कल्कस्तु स्नेहपादिकः ॥ २४९ ॥
चतुर्गुणं त्वष्टगुणं द्रवद्वैगुण्यतो भवेत् ।
पञ्चप्रभृति यत्र स्युर्द्रवाणि स्नेहसंविधौ ॥ २५० ॥
तत्र स्नेहसमान्याहुरर्वाक्च स्याच्चतुर्गुणम् ।
५०वासां गुडूचीं त्रिफलां त्रायमाणां यवासकम् ।
पक्त्वा तेन कषायेण पयसा द्विगुणेन च ॥ २५१ ॥
पिप्पलीमलमृद्वीकाचन्दनोत्पलनागरैः ।
कल्कीकृतैश्च विपचेद्धृतं जीर्णज्वरापहम् ॥ २५२ ॥
५१गुडूच्याःक्वाथकल्काभ्यां त्रिफलायावृषस्य च ।
मृद्वीकाया बलायाश्च सिद्धाः स्नेहा ज्वरच्छिदः ॥ २५३ ॥
ज्वरे पेयाः कषायाश्च सर्पिः क्षीरं विरेचनम् ।
षडहे षडहे देयं कालं वीक्ष्यामयस्य च ॥ २५४ ॥
जीर्णज्वरे कफे क्षीणे क्षीरं स्यादमृतोपमम् ।
तदेव तरुणे पीतं विषवद्धन्ति मानवम् ॥ २५५ ॥
कासाच्छ्वासाच्छिरःशूलात्पार्श्वशूलात्सपीनसात् ।
मुच्यते ज्वरितः पीत्वा पञ्चमूलीशृतं पयः ॥ २५६ ॥
द्रव्यादष्टगुणं क्षीरं क्षीरात्तोयं चतुर्गुणम् ।
क्षीरावशेषः कर्तव्यः क्षीरपाके त्वयं विधिः ॥ २५७ ॥
त्रिकण्टकबलाबिल्वगुडनागरसाधितम् ।
वर्चोमूत्रविबन्धघ्नं शोथज्वरहरं पयः ॥ २५८ ॥
वृश्चीरविश्ववर्षाभूपयश्चोदकमेव च ।
पचेत्क्षीरावशिष्टं तु तद्धि सर्वज्वरापहम् ॥ २५९ ॥
शीतं कोष्णं ज्वरे क्षीरं यथा स्वैरौषधैर्युतम् ।
एरण्डमूलसिद्धं वा ज्वरे सपरिकर्तिके ॥ २६० ॥
ज्वरिभ्यो बहुदोषेभ्य ऊर्ध्वं चाधश्च बुद्धिमान् ।
दद्यात्संशोधनं काले कल्पे यदुपदेक्ष्यते ॥ २६१ ॥
मदनं पिप्पलीभिर्वा कलिङ्गैर्मधुकेन वा ।
युक्तमुष्णाम्बुना पीतं वमनं ज्वरशान्तये ॥ २६२ ॥
आरग्वधं वा पयसा मृद्वीकानां रसेन वा ।
त्रिवृतां त्रायमाणां वा पयसा ज्वरितः पिबेत् ॥ २६३ ॥
ज्वरक्षीणस्य न हितं वमनं न विरेचनम् ।
कामं तु पयसा तस्य निरूहैर्वा हरेन्मलान् ॥ २६४ ॥
प्रयोजयेज्ज्वरहरान्निरूहान्सानुवासनान् ।
पक्वाशयगते दोषे वक्ष्यन्ते ये च सिद्धिषु ॥ २६५ ॥
गौरवे शिरसः शूले विबद्धेष्विन्द्रियेषु च ।
जीर्णज्वरे रुचिकरं दद्याच्छीर्षविरेचनम् ॥ २६६ ॥
अभ्यङ्गांश्च प्रदेहांश्च सस्नेहान्सानुवासनान् ।
विभज्य शीतोष्णकृतान्दद्याज्जीर्णज्वरे भिषक् ॥ २६७ ॥
तैराशु प्रशमं याति बहिर्मार्गगतो ज्वरः ।
लभन्ते सुखमङ्गानि बलं वर्णश्च वर्धते ॥ २६८ ॥
५२सुवर्चिकानागरकुष्ठमूर्वा-
लाक्षानिशालोहितयष्टिकाभिः ।
तैलं ज्वरे षद्गुणतक्रसिद्ध-
मभ्यञ्जनाच्छीतविदाहनुत्स्यात् ॥ २६९ ॥
दध्नः ससारकस्यात्र तक्रं क+इरमिष्यते ।
घृतवत्तैलपाकोऽपि तैले फेनोऽधिकः परः ॥ २७० ॥
५३मूर्वा लाक्षा हरिद्रे द्वे मञ्जिष्ठा सेन्द्रवारुणी ।
बृहती सैन्धवं कुष्ठं रास्ना मांसी शतावरी ॥ २७१ ॥
आरनालाढकेनैव तैलप्रस्थं विपाचयेत् ।
तैलमङ्गारकं नाम सर्वज्वरविमोक्षणम् ॥ २७२ ॥
५४लाक्षाहरिद्रामञ्जिष्ठाकल्कैस्तैलं विपाचयेत् ।
षड्गुणेनारनालेन दाहशीतज्वरापहम् ॥ २७३ ॥
यवचूर्णार्धकुडवं मञ्जिष्ठार्धपलेन तु ।
तैलप्रस्थं शतगुणे काञ्जिके साधितं जयेत् ॥ २७४ ॥
ज्वरं दाहं महावेगमङ्गानां च प्रहर्षनुत् ।
सर्जकाञ्जिकसंसिद्धं तैलं शीताम्बुमर्दितम् ॥ २७५ ॥
ज्वरदाहापहं लेपात्सद्यो वातास्रदाहनुत् ।
चन्दनाद्यमगुर्वाद्यं तैलं चरककीर्तितम् ॥ २७६ ॥
तथा नारायणं तैलं जीर्णज्वरहरं परम् ।
अभिघातो ज्वरो न स्यात्पानाभ्यङ्गेन सर्पिषः ॥ २७७ ॥
क्षतानां व्रणितानां च क्षतव्रणचिकित्सया ।
ओषधीगन्धविषजौ विषपीतप्रबाधनैः ॥ २७८ ॥
जयेत्कषायैर्मतिमान्सर्वगन्धकृतैस्तथा ।
अभिचाराभिशापोत्थौ ज्वरौ होमादिना जयेत् ॥ २७९ ॥
दानस्वस्त्ययनातिथ्यैरुत्पातग्रहपीडजौ ।
क्रोधजे पित्तजित्काम्या अर्थाः सद्वाक्यमेव च ॥ २८० ॥
आश्वासेनेष्टलाभेन वायोः प्रशमनेन च ।
हर्षणैश्च शमं यान्ति कामक्रोधभयज्वराः ॥ २८१ ॥
कामात्क्रोधज्वरो नाशं क्रोधात्कामसमुद्भवः ।
याति ताभ्यामुभाभ्यां च भयशोकसमुद्भवः ॥ २८२ ॥
भूतविद्यासमुद्दिष्टैर्बन्धावेशनताडनैः ।
जयेद्भूताभिषङ्गोत्थं मनः सान्त्वैश्च मानसम् ॥ २८३ ॥
व्यायामं च व्यवायं च स्नानं चंक्रमणानि च ।
ज्वरमुक्तो न सेवेत यावन्नो बलवान्भवेत् ॥ २८४ ॥
देहो लघुर्व्यपगतक्लममोहतापः
पाको सुखे करणसौष्ठवमव्यथत्वम् ।
19-a
स्वेदः क्षवः प्रकृतिगामिमनोऽन्नलिप्सा
कण्डुश्च मूर्ध्नि विगतज्वरलक्षणानि ॥ २८५ ॥