2-a
सद्योभुक्तस्य वा जाते ज्वरे सन्तर्पणोत्थिते ।
वमनं वमनार्हस्य शस्तमित्याह वाग्भटः ॥ १४ ॥
कफप्रधानानुत्क्लिष्टान्दोषानामाशयस्थितान् ।
बुद्ध्वा ज्वरकरान्काले वम्यानां वमनैर्हरेत् ॥ १५ ॥
अनुपस्थितदोषाणां वमनं तरुणे ज्वरे ।
हृद्रोगं श्वासमानाहं मोहं च कुरुते भृशम् ॥ १६ ॥
तृष्यते सलिलं चोष्णं दद्याद्वातकफज्वरे ।
सद्योत्थे पैत्तिके चाथ शीतलं तिक्तकैः शृतम् ॥ १७ ॥
दीपनं पाचनं चैव ज्वरघ्नमुभयं च तत् ।
स्रोतसां शोधनं बल्यं रुचिस्वेदप्रदं शिवम् ॥ १८ ॥