18-b
५३मूर्वा लाक्षा हरिद्रे द्वे मञ्जिष्ठा सेन्द्रवारुणी ।
बृहती सैन्धवं कुष्ठं रास्ना मांसी शतावरी ॥ २७१ ॥
आरनालाढकेनैव तैलप्रस्थं विपाचयेत् ।
तैलमङ्गारकं नाम सर्वज्वरविमोक्षणम् ॥ २७२ ॥
५४लाक्षाहरिद्रामञ्जिष्ठाकल्कैस्तैलं विपाचयेत् ।
षड्गुणेनारनालेन दाहशीतज्वरापहम् ॥ २७३ ॥
यवचूर्णार्धकुडवं मञ्जिष्ठार्धपलेन तु ।
तैलप्रस्थं शतगुणे काञ्जिके साधितं जयेत् ॥ २७४ ॥
ज्वरं दाहं महावेगमङ्गानां च प्रहर्षनुत् ।
सर्जकाञ्जिकसंसिद्धं तैलं शीताम्बुमर्दितम् ॥ २७५ ॥
ज्वरदाहापहं लेपात्सद्यो वातास्रदाहनुत् ।
चन्दनाद्यमगुर्वाद्यं तैलं चरककीर्तितम् ॥ २७६ ॥
तथा नारायणं तैलं जीर्णज्वरहरं परम् ।
अभिघातो ज्वरो न स्यात्पानाभ्यङ्गेन सर्पिषः ॥ २७७ ॥
क्षतानां व्रणितानां च क्षतव्रणचिकित्सया ।
ओषधीगन्धविषजौ विषपीतप्रबाधनैः ॥ २७८ ॥
जयेत्कषायैर्मतिमान्सर्वगन्धकृतैस्तथा ।
अभिचाराभिशापोत्थौ ज्वरौ होमादिना जयेत् ॥ २७९ ॥
दानस्वस्त्ययनातिथ्यैरुत्पातग्रहपीडजौ ।
क्रोधजे पित्तजित्काम्या अर्थाः सद्वाक्यमेव च ॥ २८० ॥
आश्वासेनेष्टलाभेन वायोः प्रशमनेन च ।
हर्षणैश्च शमं यान्ति कामक्रोधभयज्वराः ॥ २८१ ॥
कामात्क्रोधज्वरो नाशं क्रोधात्कामसमुद्भवः ।
याति ताभ्यामुभाभ्यां च भयशोकसमुद्भवः ॥ २८२ ॥
भूतविद्यासमुद्दिष्टैर्बन्धावेशनताडनैः ।
जयेद्भूताभिषङ्गोत्थं मनः सान्त्वैश्च मानसम् ॥ २८३ ॥
व्यायामं च व्यवायं च स्नानं चंक्रमणानि च ।
ज्वरमुक्तो न सेवेत यावन्नो बलवान्भवेत् ॥ २८४ ॥
देहो लघुर्व्यपगतक्लममोहतापः
पाको सुखे करणसौष्ठवमव्यथत्वम् ।