19-b

Adhikāra 2

ज्वरातिसारे पेयादिक्रमः स्याल्लङ्घिते हितः ।
ज्वरातिसारी पेयां वा पिबेत्साम्लां शृतां नरः ॥ १ ॥
पृश्निपर्णीबलाबिल्वनागरोत्पलधान्यकैः ।
पाठेन्द्रयवभूनिम्बमुस्तपर्पटकामृताः ॥ २ ॥
जयन्त्याममतीसारं सज्वरं समहौषधाः ।
नागरातिविषामुस्तभूनिम्बामृतवत्सकैः ॥ ३ ॥
सर्वज्वरहरः क्वाथः सर्वातीसारनाशनः ।
ह्रीवेरातिविषामुस्तबिल्वधान्यकनागरैः ॥ ४ ॥
पिबेत्पिच्छाविबन्धघ्नं शूलदोषामपाचनम् ।
सरक्तं हन्त्यतीसारं सज्वरं वाथ विज्वरम् ॥ ५ ॥
गुडूच्यतिविषाधान्यशुण्ठीबिल्वाब्दबालकैः ।
पाठाभूनिम्बकुटजचन्दनोशीरपद्मकैः ॥ ६ ॥
कषायः शीतलः पेयो ज्वरातीसारशान्तये ।
हृल्लासारोचकच्छर्दिपिपासादाहनाशनः ॥ ७ ॥