Adhikāra 28

131-b
त्रिवृत्सुधापत्रतिलादिशाक-
ग्राम्यौदकानूपरसैर्यवान्नम् ।
अन्यैश्च मृष्टानिलमूत्रविड्भि-
रद्यात्प्रसन्नागुडसीधुपायी ॥ १ ॥
आस्थापनं मारुतजे स्निग्धस्विन्नस्य शस्यते ।
पुरीषजे तु कर्तव्यो विधिरानाहिकश्च यः ॥ २ ॥
क्षारवैतरणौ बस्ती युञ्ज्यात्तत्र चिकित्सकः ।
श्यामादन्तीद्रवन्तीत्वङ्महाश्यामास्नुहीत्रिवृत् ॥ ३ ॥
सप्तला शङ्खिनी श्वेता राजवृक्षः सतिल्वकः ।
कम्पिल्लकं करञ्जश्च हेमक्षीरीत्ययं गणः ॥ ४ ॥
सर्पिस्तैलरजःक्वाथकल्केष्वन्यतमेषु च ।
उदावर्तोदरानाहविषगुल्मविनाशनः ॥ ५ ॥
त्रिवृत्कृष्णाहरीतक्यो द्विचतुःपञ्चभागिकाः ।
गुडिका गुडतुल्यास्ता विड्विबन्धगदापहाः ॥ ६ ॥
हरीतकीयवक्षारपीलूनि त्रिवृता तथा ।
घृतैश्चूर्णमिदं पेयमुदावर्तविनाशनम् ॥ ७ ॥
132-a
हिङ्गुकुष्ठबचासर्जिबिडं चेति द्विरुत्तरम् ।
पीतं मद्येन तच्चूर्णमुदावर्तहरं परम् ॥ ८ ॥
खण्डपलं त्रिवृता सम-
मुपकुल्याकर्षचूर्णितं श्लक्ष्णम् ।
प्राग्भोजने च समधु
बिडालपदकं लिहेत्प्राज्ञः ॥ ९ ॥
एतद्गाढपुरीषे
पित्ते सकफे च विनियोज्यम् ।
स्वादुर्नृपयोग्योऽयं
चूर्णो नाराचको नाम्ना ॥ १० ॥
रसोनं मद्यसंमिश्रं पिबेत्प्रातः प्रकाङ्क्षितः ।
गुल्मोदावर्तशूलघ्नं दीपनं बलवर्धनम् ॥ ११ ॥
132-b
हिङ्गुमाक्षिकसिन्धूत्थैः पक्त्वा वर्तिं सुनिर्मिताम् ।
घृताभ्यक्तां गुदे दद्यादुदावर्तविनाशिनीम् ॥ १२ ॥
मदनं पिप्पली कुष्ठं वचा गौराश्च सर्षपाः ।
गुडक्षारसमायुक्ताः फलवर्तिः प्रशस्यते ॥ १३ ॥
अगारधूमसिन्धूत्थतैलयुक्ताम्लमूलकम् ।
क्षुण्णं निर्गुण्डिपत्रं वा स्विन्ने पायौ क्षिपेद्बुधः ॥ १४ ॥
सौवर्चलाढ्यां मदिरां मूत्रे त्वभिहते पिबेत् ।
एलां वाप्यथ मद्येन क्षीरं वारि पिबेच्च सः ॥ १५ ॥
दुःस्पर्शास्वरसं वापि कषायं ककुभस्य च ।
एर्वारुबीजं तोयेन पिबेद्वा लवणीकृतम् ॥ १६ ॥
पञ्चमूलीशृतं क्षीरं द्राक्षारसमथापि वा ।
सर्वथैवोपयुञ्जीत मूत्रकृच्छ्राश्मरीविधिम् ॥ १७ ॥
स्नेहस्वेदैरुदावर्तं जृम्भजं समुपाचरेत् ।
अश्रुमोक्षोऽश्रुजे कार्यः स्वप्नो मद्यं प्रियाः कथाः ॥ १८ ॥
क्षवजे क्षरपत्रेण घ्राणस्थेनानयेत्क्षवम् ।
तथोर्ध्वजत्रुकोऽभ्यङ्गः स्वेदो धूमः सनावनः ॥ १९ ॥
हितं वातघ्नमद्यं च घृतं चोत्तरभक्तिकम् ।
उद्गारजे क्रमोपेतं स्नैहिकं धूममाचरेत् ॥ २० ॥
छर्द्याघातं यथादोषं नस्यस्नेहादिभिर्जयेत् ।
भुक्त्वा प्रच्छर्दनं धूमो लङ्घनं रक्तमोक्षणम् ॥ २१ ॥
रुक्षान्नपाने व्यायामो विरेकश्चात्र शस्यते ।
वस्तिशुद्धिकरावापं चतुर्गुणजलं पयः ॥ २२ ॥
आवारिनाशात्क्वथितं पीतवन्तं प्रकामतः ।
रमयेयुः प्रिया नार्यः शुक्रोदावर्तिनं नरम् ॥ २३ ॥
अत्राभ्यङ्गावगाहाश्च मदिराश्चरणायुधाः ।
शालिः पयोनिरूहाश्च शस्तं मैथुनमेव च ॥ २४ ॥
क्षुद्विघाते हितं स्निग्धमुष्णमल्पं च भोजनम् ।
तृष्णाघाते पिबेन्मन्थं यवागूं वापि शीतलाम् ॥ २५ ॥
रसेनाद्यात्सुविश्रान्तः श्रमश्वासातुरो नरः ।
निद्राघाते पिबेत्क्षीरं स्वप्नः संवाहनानि च ।
उदावर्तक्रियानाहे सामे लङ्घनपाचनम् ॥ २६ ॥
133-a
द्विरुत्तरा हिङ्गु वचा सकुष्ठा
सुवर्चिका चेति विडङ्गचूर्णम् ।
सुखाम्बुनानाहविषूचिकार्ति-
हृद्रोगगुल्मोर्ध्वसमीरणघ्नम् ॥ २७ ॥
133-b
वचाभयाचित्रकयावशूकान्
सपिप्पलीकातिविषान्सकुष्ठान् ।
उष्णाम्बुनानाहविमूढवातान्
पीत्वा जयेदाशु हितौदनाशी ॥ २८ ॥
त्रिवृद्धरीतकीश्यामाः स्नुहीक्षीरेण भावयेत् ।
वटिका मूत्रपीतास्ताः श्रेष्ठाश्चानाहभेदिकाः ॥ २९ ॥
फलं च मूलं च विरेचनोक्तं
हिङ्ग्वर्कमूलं दशमूलमग्र्यम् ।
स्नुक्चित्रकौ चैव पुनर्नवा च
तुल्यानि सर्वैर्लवणानि पञ्च ॥ ३० ॥
स्नेहैः समूत्रैः सह जर्जराणि
शरावसन्धौ विपचेत्सुलिप्ते ।
पक्वं सुपिष्टं लवणं तदन्नैः
पानैस्तथानाहरुजाघ्नमग्र्यम् ॥ ३१ ॥
वाठधूमबिडव्योषगुडमूत्रैर्विपाचिता ।
गुदेऽङ्गुष्ठसमा वर्तिर्विधेयानाहशूलनुत् ॥ ३२ ॥
वर्तिस्त्रिकटुकसैन्धव-
सर्पपगृहधूमकुष्ठमदनफलैः ।
मधुनि गुडे वा पक्त्वा
पायावङ्गुष्ठमानतो वेश्य ॥ ३३ ॥
वर्तिरियं दृष्टफला
गुदे शनैः प्रणिहिता घृताभ्यक्ता ।
आनाहोदावर्त-
प्रशमनी जठरगुल्मनिवारिणी ॥ ३४ ॥
134-a
मूलकं शुष्कमार्द्रं च वर्षाभू पञ्चमूलकम् ।
आरेवतफलं चापि पिष्ट्वा तेन पचेद्धृतम् ।
तत्पीयमानं शमयेदुदावर्तमसंशयम् ॥ ३५ ॥
स्थिरादिवर्गस्य पुनर्नबायाः
सम्पाकपूतीककरञ्जयोश्च ।
सिद्धः कषाये द्विपलांशिकानां
प्रस्थो घृतात्स्यात्प्रतिरुद्धवाते ॥ ३६ ॥