147-a
ततो मितं पिबेत्काले यथादोषं यथावलम् ।
वातरेताः पित्तरेताः श्लेष्मरेताश्च यो भवेत् ॥ २२ ॥
रक्तरेता ग्रन्थिरेताः पिबेदिच्छन्नरोगताम् ।
जीवनीयं च वृष्यं च सर्पिरेतन्महागुणम् ॥ २३ ॥
प्रजाहितं च धन्यं च सर्वरोगापहं शिवम् ।
सर्पिरेतत्प्रयुञ्जाना स्त्री गर्भं लभतेऽचिरात् ॥ २४ ॥
असृग्दोषाञ्जयेच्चैव योनिदोषांश्च संहतान् ।
मूत्रदोषेषु सर्वेषु कुर्यादेतच्चिकित्सितम् ॥ २५ ॥

Adhikāra 33

वरुणस्य त्वचं श्रेष्ठां शुण्ठीगोक्षुरसंयुताम् ।
यवक्षारगुडं दत्वा क्वाथयित्वा पिबेद्धिताम् ॥ १ ॥
अश्मरीं वातजां हन्ति चिरकालानुबन्धिनीम् ।
वीरतरः सहचरी दर्भो वृक्षादनी नलः ॥ २ ॥
गुन्द्राकाशकुशावश्मभेदमोरटटुण्टुकाः ।
कुरुण्टिका च वशिरो वसुकः साग्निमन्थकः ॥ ३ ॥
इन्दीवरी श्वदंष्ट्रा च तथा कापोतवक्त्रकः ।
वीरतरादिरित्येष गणो वातविकारनुत् ॥ ४ ॥