Adhikāra 34
151-a१श्यामाककोद्रवोद्दालगोधूमचणकाढकी ।
कुलत्थाश्च हिता भोज्ये पुराणमेहिनां सदा ॥ १ ॥
जाङ्गलं तिक्तशाकानि यवान्नं च तथा मधु ।
पारिजातजयानिम्बवह्निगायत्रिणां पृथक् ॥ २ ॥
पाठायाः सागुरोः पीता द्वयस्य शारदस्य च ।
जलेक्षुमद्यसिकतां शनैर्लवणपिष्टकान् ।
सान्द्रमेहान्क्रमाद्घ्नन्ति अष्टौ क्वाथाः समाक्षिकाः ॥ ३ ॥
दूर्वाकशेरुपूतीकपुंभीकल्वव?शैवलम् ।
जलेन क्वथितं पीतं शुक्रमेहहरं परम् ॥ ४ ॥
त्रिफलारग्वधद्राक्षाकषायो मधुसंयुतः ।
पीतो निहन्ति फेनाख्यं प्रमेहं नियतं नृणाम् ॥ ५ ॥
२लोध्राभयाकट्फलमुस्तकानां
विडङ्गपाठार्जुनधन्वनानाम् ।
कदम्बशालार्जुनदीप्यकानां
बिडङ्गदार्वीधवशल्लकीनाम् ॥ ६ ॥
चत्वार एते मधुना कषायाः
कफप्रमेहेषु निषेवणीयाः ॥ ७ ॥
अश्वत्थाच्चतुरङ्गुल्या न्यग्रोधादेः फलत्रिकात् ।
सजिङ्गिरक्तसाराच्च क्वाथाः पञ्च समाक्षिकाः ॥ ८ ॥
नीलदरिद्रफेनाख्यक्षारमञ्जिष्ठकाह्वयान् ।
मेहान्हन्युः क्रमादेते सक्षौद्रो रक्तमेहनुत् ।
क्वाथः खर्जूरकाश्मर्यतिन्दुकास्थ्यमृताकृतः ॥ ९ ॥
लोध्रार्जुनोशीरकुचन्दनाना-
मरिष्टसेव्यामलकाभयानाम् ।
धात्र्यर्जुनारिष्टकवत्सकानां
नीलोत्पलैलातिनिशार्जुनानाम् ॥ १० ॥
चत्वार एते विहिताः कषायाः
पित्ते प्रमेहे मधुसंप्रयुक्ताः ॥ ११ ॥
३छिन्नावह्निकषायेण पाठाकुटजरामठम् ।
तिक्तां कुष्ठं च संचूर्ण्य सर्पिर्मेहे पिबेन्नरः ॥ १२ ॥
कदरखदिरपूगक्वाथं क्षौद्राह्वये पिबेत् ।
अग्निमन्थकषायं तु वसामेहे प्रयोजयेत् ॥ १३ ॥
पाठाशिरीषदुस्पर्शमूर्वाकिंशुकतिन्दुकम् ।
कपित्थानां भिषक्क्वाथं हस्तिमेहे प्रयोजयेत् ॥ १४ ॥
कम्पिल्लसप्तच्छदशालजानि
विभीतरौहीतककौटजानि ।
कपित्थपुष्पाणि च चूर्णितानि
क्षौद्रेण लिह्यात्कफपित्तमेही ॥ १५ ॥
सर्वमेहहरा धात्र्या रसः क्षौद्रनिशायुतः ।
कपायस्त्रिफलादारुमुस्तकैरथवा कृतः ॥ १६ ॥
फलत्रिकं दारुनिशां विशालां
मुस्तं च निःक्वाथ्य निशांशकल्कम् ।
पिबेत्कषायं मधुसंप्रयुक्तं
सर्वेषु मेहेषु समुत्थितेषु ॥ १७ ॥
४कटंकटेरीमधुकत्रिफलाचित्रकैः समैः ।
सिद्धः कषायः पातव्यः प्रमेहाणां विनाशनः ॥ १८ ॥
त्रिफलादारुदार्व्यब्दक्वाथः क्षौद्रेण मेहहा ।
कुटजाशनदार्व्यब्दफलत्रयभवोऽथवा ॥ १९ ॥
त्रिफलालोहशिलाजतुपथ्याचूर्णं च लीढमेकैकम् ।
मधुनामरास्वरस इव सर्वान्मेहान्निरस्यति ॥ २० ॥
शालमुष्कककम्पिल्लकल्कमक्षसमं पिबेत् ।
धात्रीरसेन सक्षौद्रं सर्वमेहहरं परम् ॥ २१ ॥
५न्यग्रोधोदुम्बराश्वत्थस्योनाकारग्वधाशनम् ।
आम्रजम्बूकपित्थं च प्रियालं ककुभं धवम् ॥ २२ ॥
मधुको मधुकं लोध्रं वरुणं पारिभद्रकम् ।
पटोलं मेषशृङ्गी च दन्ती चित्रकमाढकी ॥ २३ ॥
करञ्जत्रिफलाशक्रभल्लातकफलानि च ।
एतानि समभागानि श्लक्ष्णचूर्णानि कारयेत् ॥ २४ ॥
न्यग्रोधाद्यमिदं चूर्णं मधुना सह लेहयेत् ।
फलत्रयरसं चानु पिबेन्मूत्रं विशुध्यति ॥ २५ ॥
एतेन विंशतिर्मेहा मूत्रकृच्छ्राणि यानि च ।
प्रशमं यान्ति योगेन पीडका न च जायते ।
न्यग्रोधाद्यमिदं त्वत्र चाम्रजम्ब्वस्थि गृह्यते ॥ २६ ॥
६त्रिकण्टकाश्मन्तकसोमवल्कै-
र्भल्लातकैः सातिविषैः सलोध्रैः ।
वचापटोलार्जुननिम्बमुस्तै-
र्हरिद्रया दीप्यकपद्मकैश्च ॥ २७ ॥
मञ्जिष्ठपाठागुरुचन्दनैश्च
सर्वैः समस्तैः कफवातजेषु ।
मेहेषु तैलं विपचेद्धृतं तु
पित्तेषु मिश्रं त्रिषु लक्षणेषु ॥ २८ ॥
७कफमेहहरक्वाथसिद्धं सर्पिः कफे हितम् ।
पित्तमेहघ्ननिर्यूहसिद्धं पित्ते हितं घृतम् ॥ २९ ॥
दशमूलं करञ्जौ द्वौ देवदारु हरीतकी ।
वर्षाभूर्वरुणो दन्ती चित्रकं सपुनर्नवम् ॥ ३० ॥
सुधानीपकदम्बाश्च बिल्वभल्लातकानि च ।
शठी पुष्करमूलं च पिप्पलीमूलमेव च ॥ ३१ ॥
पृथग्दशपलान्भागांस्ततस्तोयार्मणे पचेत् ।
यवकोलकुलत्थानां प्रस्थं प्रस्थं च दापयेत् ।
तेन पादावशेषेण घृतप्रस्थं विपाचयेत् ॥ ३२ ॥
निचुलं त्रिफला भार्गी रोहिषं गजपिप्पली ।
शृङ्गवेरं विडङ्गानि वचा कम्पिल्लकं तथा ॥ ३३ ॥
गर्भेणानेन तत्सिद्धं पाययेत्तु यथाबलम् ।
एतद्धान्वन्तरं नाम विख्यातं सर्पिरुत्तमम् ॥ ३४ ॥
कुष्ठं गुल्मं प्रमेहांश्च श्वयथुं वातशोणितम् ।
प्लीहोदरं तथार्शांसि विद्रधिं पिडकाश्च याः ।
अपस्मारं तथोन्मादं सर्पिरेतन्नियच्छति ॥ ३५ ॥
पृथक्तोयार्मणे तत्र पचेद्द्रव्याच्छतं शतम् ।
शतत्रयाधिके तोयमुत्सर्गक्रमतो भवेत् ॥ ३६ ॥
८त्रिकटु त्रिफलाचूर्णतुल्ययुक्तं तु गुग्गुलुम् ।
गोक्षुरक्वाथसंयुक्तं गुटिकां कारयेद्भिपक् ॥ ३७ ॥
दोषकालबलापेक्षी भक्षयेच्चानुलोमिकीम् ।
न चात्र परिहारोऽस्ति कर्म कुर्याद्यथेप्सितम् ।
प्रमेहान्मूत्रघातांश्च बालरोगोदरं जयेत् ॥ ३८ ॥
९शालसारादितोयेन भावितं यच्छिलाजतु ।
पिबेत्तेनैव संशुद्धदेहः पिष्टं यथाबलम् ॥ ३९ ॥
जाङ्गलानां रसैः सार्धं तस्मिञ्जीर्णे च भोजनम् ।
कुर्यादेवं तुलां यावदुपयुञ्जीत मानवः ॥ ४० ॥
मधुमेहं विहायासौ शर्करामश्मरीं तथा ।
वपुर्वर्णबलोपेतः शतं जीवत्यनामयः ॥ ४१ ॥
१०विडङ्गत्रिफलामुस्तैः कणया नागरेण च ।
जीरकाभ्यां युतो हन्ति प्रमेहानतिदुस्तरान् ।
लौहो मूत्रविकारांश्च सर्वमेव न संशयः ॥ ४२ ॥
११माक्षिकं धातुमप्येवं युञ्ज्यात्तस्याप्ययं गुणः ।
शालसारादिवर्गस्य क्वाथे तु घनतां गते ॥ ४३ ॥
दन्तीलोध्रशिवाकान्तलौहताम्ररजः क्षिपेत् ।
घनीभूतमदग्धं च प्राश्य मेहान्व्यपोहति ॥ ४४ ॥
व्यायामजातमखिलं भजन्मेहान्व्यपोहति ।
पादत्रच्छत्ररहितो भैक्षाशी मुनिवद्यतः ॥ ४५ ॥
योजनानां शतं गच्छेदधिकं वा निरन्तरम् ।
मेहाञ्जेतुं बलेनापि नीवारामलकाशनः ॥ ४६ ॥
शराविकाद्याः पीडकाः साधयेच्छोथवद्भिषक् ।
पक्वाश्चिकित्सेद्व्रणवत्तासां पाने प्रशस्यते ॥ ४७ ॥
क्वाथं वनस्पतेर्बास्तं मूत्रं च व्रणशोधनम् ।
एलादिकेन कुर्वीत तैलं च व्रणरोपणम् ॥ ४८ ॥
आरग्वधादिना कुर्यात्क्वाथमुद्वर्तनानि च ।
शालसारादिसेकं च भोज्यादिं च कणादिना ॥ ४९ ॥
सौवीरकं सुरां शुक्तं तैलं क्षीरं घृतं गुडम् ।
अम्लेक्षुरसपिष्टान्नानूपमांसानि वर्जयेत् ॥ ५० ॥