Adhikāra 35

श्रमचिन्ताव्यवायाध्वक्षौद्रजागरणप्रियः ।
हन्त्यवश्यमतिस्थौल्यं यवश्यामाकभोजनः ॥ १ ॥
अस्वापं च व्यवायं च व्यायामं चिन्तनानि च ।
स्थौल्यमिच्छन्परित्यक्तुं क्रमेणातिप्रवर्धयेत् ॥ २ ॥
154-b
प्रातर्मधुयुतं वारि सेवितं स्थौल्यनाशनम् ।
उष्णमन्नस्य मण्डं वा पिबन्कृशतनुर्भवेत् ॥ ३ ॥
सचव्यजीरकव्योषहिङ्गुसौवर्चलानलाः ।
मस्तुना शक्तवः पीता मेदोघ्ना वह्निदीपनाः ॥ ४ ॥
विडङ्गनागरक्षारकाललोहरजो मधु ।
यवामलकचूर्णं तु प्रयोगः स्थौल्यनाशनः ॥ ५ ॥
व्योषं विडङ्गशिग्रूणि त्रिफलां कटुरोहिणीम् ।
बृहत्यौ द्वे हरिद्रे द्वे पाठामतिविषां स्थिराम् ॥ ६ ॥
हिङ्गुकेबूकमूलानि यमानीधान्यचित्रकम् ।
सौवर्चलमजाजीं च हपुषां चेति चूर्णयेत् ॥ ७ ॥
चूर्णतैलघृतक्षौद्रभागाः स्युर्मानतः समाः ।
शक्तूनां षोडशगुणो भागः संतर्पणं पिबेत् ॥ ८ ॥
प्रयोगात्तस्य शाम्यन्ति रोगाः सन्तर्पणोत्थिताः ।
प्रमेहा मूढवाताश्च कुष्ठान्यर्शांसि कामलाः ॥ ९ ॥
प्लीहपाण्ड्वामयः शोथो मूत्रकृच्छ्रमरोचकः ।
हृद्रोगो राजयक्ष्मा च कासश्वासौ गलग्रहाः ॥ १० ॥
क्रिमयो ग्रहणीदोषाः श्वैत्र्यं स्थौल्यमतीव च ।
नराणां दीप्यते चाग्निः स्मृतिर्बुद्धिश्च जायते ॥ ११ ॥
155-a
वदरीपत्रकल्केन पेया काञ्जिकसाधिता ।
स्थौल्यनुत्स्यात्साग्निमन्थरसं वापि शिलाजतु ॥ १२ ॥
अमृतात्रुटिवेल्लवत्सकं
कलिङ्गपथ्यामलकानि गुग्गुलुः ।
क्रमवृद्धमिदं मधुप्लुतं
पिडकास्थौल्यभगन्दरं जयेत् ॥ १३ ॥
व्योषाग्नित्रिफलामुस्तविडङ्गैर्गुग्गुलुं समम् ।
खादन्सर्वाञ्जयेद्व्याधीन्मेदःश्लेष्मामवातजान् ॥ १४ ॥
गुग्गुलुस्तालमूली चत्रिफला खदिरं वृषम् ।
त्रिवृतालम्बुषा स्नुक्च निर्गुण्डी चित्रकं तथा ॥ १५ ॥
एषां दशपलान्भागांस्तोये पञ्चाढके पचेत् ।
पादशेषं ततः कृत्वा कषायमवतारयेत् ॥ १६ ॥
पलद्वादशकं देयं तीक्ष्णलौहं सुचूर्णितम् ।
पुराणसर्पिषः प्रस्थं शर्कराष्टपलोन्मितम् ॥ १७ ॥
पचेत्ताम्रमये पात्रे सुशीते चावतारिते ।
प्रस्थार्धं माक्षिकं देयं शिलाजतु पलद्वयम् ॥ १८ ॥
एला त्वक्च पलार्धं च विडङ्गानि पलद्वयम् ।
मरिचं चाञ्जनं कृष्णाद्विपलं त्रिफलान्वितम् ॥ १९ ॥
पलद्वयं तु काशीसं सूक्ष्मचूर्णीकृतं बुधैः ।
चूर्णं दत्त्वा सुमथितं स्निग्धे भाण्डे निधापयेत् ॥ २० ॥
155-b
ततः संशुद्धदेहस्तु भक्षयेदक्षमात्रकम् ।
अनुपानं पिबेत्क्षीरं जाङ्गलानां रसं तथा ॥ २१ ॥
वातश्लेष्महरं श्रेष्ठं कुष्ठमेहोदरापहम् ।
कामलां पाण्डुरोगं च श्वयथुं सभगन्दरम् ॥ २२ ॥
मूर्च्छामोहविषोन्मादगराणि विविधानि च ।
स्थूलानां कर्षणं श्रेष्ठं मेदुरे परमौषधम् ॥ २३ ॥
कर्षयेच्चातिमात्रेण कुक्षिं पातालसन्निभम् ।
बल्यं रसायनं मेध्यं वाजीकरणमुत्तमम् ॥ २४ ॥
श्रीकरं पुत्रजननं वलीपलितनाशनम् ।
नाश्नीयात्कदलीकन्दं काञ्जिकं करमर्दकम् ।
करीरं कारवेल्लं च षट् ककाराणि वर्जयेत् ॥ २५ ॥
त्रिफलातिविषामूर्वात्रिवृच्चित्रकवासकैः ।
निम्बारग्वधषट्ग्रन्थासप्तपर्णनिशाद्वयैः ॥ २६ ॥
गुडूचीन्द्रसुराकृष्णाकुष्टसर्षपनागरैः ।
तैलमेभिः समं पक्वं सुरसादिरसाप्लुतम् ॥ २७ ॥
156-a
पानाभ्यञ्जनगण्डूषनस्यबस्तिषु योजितम् ।
स्थूलतालस्य कण्ड्वादीञ्जयेत्कफकृतान्गदान् ॥ २८ ॥
शिरीषलामज्जकहेमलोध्रै-
स्त्वग्दोषसंस्वेदहरः प्रहर्षः ।
पत्राम्बुलौहाभयचन्दनानि
शरीरदौर्गन्ध्यहरः प्रदेहः ॥ २९ ॥
वासादलरसो लेपाच्छङ्खचूर्णेन संयुतः ।
बिल्वपत्ररसैर्वापि गात्रदौर्गन्ध्यनाशनः ॥ ३० ॥
हरीतकीलोध्रमरिष्टपत्रं
चूतत्वचो दाडिमवल्कलं च ।
एषोऽङ्गरागः कथितोऽङ्गनानां
जङ्घाकषायश्च नराधिपानाम् ॥ ३१ ॥
दलजललघुमलयभव-
विलेपनं हरति देहदौर्गन्ध्यम् ।
विमलारणालसहितं
पीतमिवालम्बुषाचूर्णम् ॥ ३२ ॥
गोमूत्रपिष्टं विनिहन्ति कुष्ठं
वर्णोज्ज्वलं गोपयसा च युक्तम् ।
कक्षादिदौर्गन्ध्यहरं पयोभिः
शस्तं वशीकृद्रजनीद्वयेन ॥ ३३ ॥
चिञ्चापत्रस्वरसम्रदितं कक्षादियोजितं जयति ।
दग्धहरिद्रोद्वर्तनमचिराद्देहस्य दौर्गन्ध्यम् ॥ ३४ ॥
हस्तपादश्रुतौ योज्यं गुग्गुलुं पञ्चतिक्तकम् ।
अथवा पञ्चतिक्ताख्यं घृतं खादेदतन्द्रितः ॥ ३५ ॥