Adhikāra 36

156-b
उदरे दोषसम्पूर्णे कुक्षौ मन्दो यतोऽनलः ।
तस्माद्भोज्यानि योज्यानि दीपनानि लघूनि च ॥ १ ॥
रक्तशालीन्यवान्मुद्गाञ्जाङ्गलांश्च मृगद्विजान् ।
पयोमूत्रासवारिष्टमधुशीधु तथा पिबेत् ॥ २ ॥
वातोदरं बलवतः पूर्वं स्नेहैरुपाचरेत् ।
स्निग्धाय स्वेदिताङ्गाय दद्यात्स्नेहविरेचनम् ॥ ३ ॥
हृते दोषे परिम्लानं वेष्टयेद्वाससोदरम् ।
तथास्यानवकाशत्वाद्वायुना ध्मापयेत्पुनः ॥ ४ ॥
दोषातिमात्रोपचारात्स्रोतोमार्गनिरोधनात् ।
सम्भवत्युदरं तस्मान्नित्यमेनं विरेचयेत् ॥ ५ ॥
विरिक्ते च यथादोषहरैः पेया शृता हिता ।
वातोदरी पिबेत्तक्रं पिप्पलीलवणान्वितम् ॥ ६ ॥
शर्करामरिचोपेतं स्वादु पित्तोदरी पिबेत् ।
यमानीसैन्धवाजाजीव्योपयुक्तं कफोदरी ॥ ७ ॥
157-a
पिबेन्मधुयुतं तक्रं व्यक्ताम्लं नातिपेलवम् ।
मधुतैलवचाशुण्ठीशताह्वाकुष्ठसैन्धवैः ॥ ८ ॥
युक्तं प्लीहोदरी जातं सव्योषं तु दकोदरी ।
बद्धोदरी तु हपुषादीप्यकाजाजिसैन्धवैः ॥ ९ ॥
पिबेच्छिद्रोदरी तक्रं पिप्पलीक्षौद्रसंयुतम् ।
त्र्यूषणक्षारलवणैर्युक्तं तु निचयोदरी ॥ १० ॥
गौरवारोचकार्तानां समन्दाग्न्यतिसारिणाम् ।
तक्रं वातकफार्तानाममृतत्वाय कल्प्यते ॥ ११ ॥
वातोदरे पयोऽभ्यासो निरूहो दशमूलकः ।
सोदावर्ते वातघ्नाम्लशृतैरण्डानुवासनः ॥ १२ ॥
157-b
सामुद्रसौवर्चलसैन्धवानि
क्षारं यवानामजमोदकं च ।
सपिप्पलीचित्रकशृङ्गवेरं
हिङ्गु बिडं चेति समानि कुर्यात् ॥ १३ ॥
एतानि चूर्णानि घृतप्लुतानि
भुञ्जीत पूर्वं कवलं प्रशस्तम् ।
वातोदरं गुल्ममजीर्णभुक्तं
वायुप्रकोपं ग्रहणीं च दुष्टाम् ॥ १४ ॥
अर्शांसि दुष्टानि च पाण्डुरोगं
भगन्दरं चेति निहन्ति सद्यः ॥ १५ ॥
पित्तोदरे तु बलिनं पूर्वमेव विरेचयेत् ।
अनुवास्याबलं क्षीरबस्तिशुद्धं विरेचयेत् ॥ १६ ॥
पयसा सत्रिवृत्कल्केनोरुबूकशृतेन वा ।
शातलात्रायमाणाभ्यां शृतेनारग्वधेन वा ॥ १७ ॥
कफादुदरिणं शुद्धं कटुक्षारान्नभोजितम् ।
मूत्रारिष्टायस्कृतिभिर्योजयेच्च कफापहैः ॥ १८ ॥
सन्निपातोदरे सर्वां यथोक्तां कारयेत्क्रियाम् ।
प्लीहोदरे प्लीहहरं कर्मोदरहरं तथा ॥ १९ ॥
स्विन्नाय बद्धोदरिणे मूत्रं तीक्ष्णौषधान्वितम् ।
सतैलं लवणं दद्यान्निरूहं सानुवासनम् ॥ २० ॥
परिस्रंसीनि चान्नानि तीक्ष्णं चैव विरेचनम् ।
छिद्रोदरमृते स्वेदाच्छ्लेष्मोदरवदाचरेत् ॥ २१ ॥
जातं जातं जलं स्राव्यं शास्त्रोक्तं शस्त्रकर्म च ।
जलोदरे विशेषेण द्रवसेवां विवर्जयेत् ॥ २२ ॥
देवदारुपलाशार्कहस्तिपिप्पलिशिग्रुकैः ।
साश्वगन्धैः सगोमूत्रैः प्रदिह्यादुदरं शनैः ॥ २३ ॥
मूत्राण्यष्टावुदरिणां सेके पाने च योजयेत् ।
स्नुहीपयोभावितानां पिप्पलीनां पयोऽशनः ॥ २४ ॥
सहस्रं च प्रयुञ्जीत शक्तितो जठरामयी ।
158-a
शिलाजतूनां मूत्राणां गुग्गुलोस्त्रैफलस्य च ॥ २५ ॥
स्नुहीक्षीरप्रयोगश्च शमयत्युदरामयम् ।
स्नुक्पयसा परिभाविततण्डुलचूर्णैर्निर्मितः पूतः ॥ २६ ॥
उदरमुदारं हिंस्याद्योगोऽयं सप्तरात्रेण ।
पिप्पलीवर्धमानं वा कल्पदृष्टं प्रयोजयेत् ॥ २७ ॥
जठराणां विनाशाय नास्ति तेन समं भुवि ।
पटोलमूलं रजनी विडङ्गं त्रिफलात्वचम् ॥ २८ ॥
कम्पिल्लकं नीलिनीं च त्रिवृतां चेति चूर्णयेत् ।
षडाद्यान्कार्षिकानन्त्यांस्त्रींश्च द्वित्रिचतुर्गुणान् ॥ २९ ॥
158-b
कृत्वा चूर्णं ततो मुष्टिं गवां मूत्रेण ना पिवेत् ।
विरिक्तो जाङ्गलरसैर्भुञ्जीत मृदुमोदनम् ॥ ३० ॥
मण्डं पेयां च पीत्वा च सव्योषं षडहः पयः ।
शृतं पिबेत्तु तच्चूर्णं पिबेदेवं पुनः पुनः ॥ ३१ ॥
हन्ति सर्वोदराण्येतच्चूर्णं जातोदकान्यपि ।
कामलां पाण्डुरोगं च श्वयथुं चापकर्षति ॥ ३२ ॥
यमानी हपुषा धान्यं त्रिफला सोपकुञ्चिका ।
कारवी पिप्पलीमूलमजगन्धा शठी वचा ॥ ३३ ॥
शताह्वा जीरकं व्योषं स्वर्णक्षीरी सचित्रकम् ।
द्वौ क्षारौ पौष्करं मूलं कुष्टं लवणपञ्चकम् ॥ ३४ ॥
विडङ्गं च समांशानि दन्त्या भागत्रयं तथा ।
त्रिवृद्विशाले द्विगुणे शातला स्याच्चतुर्गुणाः ॥ ३५ ॥
एष नारायणो नाम चूर्णो रोगगणापहः ।
नैनं प्राप्याभिवर्धन्ते रोगा विष्णुमिवासुराः ॥ ३६ ॥
तक्रेणोदरिभिः पेयो गुल्मिभिर्वदराम्बुना ।
आनद्धवाते सुरया वातरोगे प्रसन्नया ॥ ३७ ॥
दधिमण्डेन विट्सङ्गे दाडिमाम्बुभिरर्शसि ।
परिकर्ते च वृक्षाम्लैरुष्णाम्बुभिरजीर्णके ॥ ३८ ॥
भगन्दरे पाण्डुरोगे कासे श्वासे गलग्रहे ।
हृद्रोगे ग्रहणीदोषे कोष्ठे मन्दानले ज्वरे ॥ ३९ ॥
दंष्ट्राविषे मूलविषे सगरे कृत्रिमे विषे ।
यथार्हं स्निग्धकोष्ठेन पेयमेतद्विरेचनम् ॥ ४० ॥
159-a
दन्तीवचा गवाक्षी च शङ्खिनी तिल्लकं त्रिवृत् ।
गोमूत्रेण पिबेत्कल्कं जठरामयनाशनम् ॥ ४१ ॥
सक्षीरं माहिपं मूत्रं निराहारः पिबेन्नरः ।
शाम्यत्यनेन जठरं सप्ताहादिति निश्चयः ॥ ४२ ॥
गवाक्षीशङ्खिनीदन्तीनीलिनीकल्कसंयुतम् ।
सर्वोदरविनाशय गोमूत्रं पातुमाचरेत् ॥ ४३ ॥
अर्कपत्रं सलवणमन्तर्धूमं दहेत्ततः ।
मस्तुना तत्पिबेत्क्षीरं गुल्मप्लीहोदरापहम् ॥ ४४ ॥
पीतः प्लीहोदरं हन्यात्पिप्पलीमरिचान्वितः ।
अम्लवेतससंयुक्तः शिग्रुक्वाथः ससैन्धवः ॥ ४५ ॥
गृहीत्वा यस्य संज्ञा?पाठयित्वेन्द्रवारुणीमूलम् ।
प्रक्षिप्यते सुदूरे शाम्यते प्लीहोदरं तस्य ॥ ४६ ॥
रोहितकाभयाक्षोदभावितं मूत्रमम्बु वा ।
पीतं सर्वोदरप्लीहमेहार्शः क्रिमिगुल्मनुत् ॥ ४७ ॥
159-b
देवद्रुमं शिग्रु मयूरकं च
गोमूत्रपिष्टानथवाऽश्वगन्धान् ।
पीत्वाशु हन्यादुदरं प्रवृद्धं
कृमीन्सशोथानुदरं च दूष्यम् ॥ ४८ ॥
दशमूलदारुनागर-
च्छिन्नरुहापुनर्नवाभयाक्वाथः ।
जयति जलोदरशोथ-
श्लीपदगलगण्डवातरोगांश्च ॥ ४९ ॥
हरीतकीनागरदेवदारु
पुनर्नवाछिन्नरुहाकषायः ।
सगुग्गुलुर्मूत्रयुतश्च पेयः
शोथोदराणां प्रवरः प्रयोगः ॥ ५० ॥
एरण्डतैलं दशमूलमिश्रं
गोमूत्रयुक्तस्त्रिफलारसो वा ।
निहन्ति वातोदरशोथशूलं
क्वाथः समूत्रो दशमूलजश्च ॥ ५१ ॥
पुनर्नवानिम्बपटोलशुण्ठी-
तिक्ताभयादार्वमृताकषायः ।
सर्वाङ्गशोथोदरकासशूल-
श्वासान्वितं पाण्डुगदं निहन्ति ॥ ५२ ॥
160-a
पुनर्नवां दार्वभयां गुडूचीं
पिबेत्समूत्रां महिषाक्षयुक्ताम् ।
त्वग्दोषशोथोदरपाण्डुरोग-
स्थौल्यप्रसेकोर्ध्वकफामयेषु ॥ ५३ ॥
गोमूत्रयुक्तं महिषीपयो वा
क्षीरं गवां वा त्रिफलाविमिश्रम् ।
क्षीरान्नभुक्केवलमेव गव्यं
मूत्रं पिबेद्वा श्वयथूदरेषु ॥ ५४ ॥
पुनर्नवा दार्वमृता पाठा बिल्वं श्वदंष्ट्रिका ।
बृहत्यौ द्वे रजन्यौ द्वे पिप्पल्यश्चित्रकं वृषम् ।
समभागानि संचूर्ण्य गवां मूत्रेण ना पिबेत् ॥ ५५ ॥
बहुप्रकारं श्वयथुं सर्वगात्रविसारिणम् ।
हन्ति शूलोदराण्यष्टौ व्रणांश्चैवोद्धतानपि ॥ ५६ ॥
पुराणं माणकं पिष्ट्वा द्विगुणीकृततण्डुलम् ।
साधितं क्षीरतोयाभ्यामभ्यसेत्पायसं ततः ॥ ५७ ॥
हन्ति वातोदरं शोथं ग्रहणीं पाण्डुतामपि ।
सिद्धो भिषग्भिराख्यातः प्रयोगोऽयं निरत्ययः ॥ ५८ ॥
दशमूलतुलार्धरसे
सक्षारैः पञ्चकोलैः पलिकैः ।
सिद्धं घृतार्धपात्रं
द्विमस्तुकमुदरगुल्मघ्नम् ॥ ५९ ॥
160-b
१०चतुर्गुणे जले मूत्रे द्विगुणे चित्रकात्पले ।
कल्के सिद्धं घृतप्रस्थं सक्षारं जठरी पिबेत् ॥ ६० ॥
११अर्कक्षीरपले द्वे च स्नुहिक्षीरपलानि षट् ।
पथ्याकम्पिल्लकं श्यामासम्पाकं गिरिकर्णिका ॥ ६१ ॥
नीलिनी त्रिवृता दन्ती शङ्खिनी चित्रकं तथा ।
एतेषां पलिकैर्भागैर्घृतप्रस्थं विपाचयेत् ॥ ६२ ॥
अथास्य मलिने कोष्ठे बिन्दुमात्रं प्रदापयेत् ।
यावतोऽस्य पिबेद्बिन्दूंस्तावद्वारान्विरिच्यते ॥ ६३ ॥
कुष्ठं गुल्ममुदावर्तं श्वयथुं सभगन्दरम् ।
शमयत्युदराण्यष्टौ वृक्षमिन्द्राशनिर्यथा ।
एतद्बिन्दुघृतं नाम येनाभ्यक्तो विरिच्यते ॥ ६४ ॥
१२दधिमंडाढके सिद्धात्स्नुक्क्षीरपलकल्कितात् ।
घृतप्रस्थात्पिबेन्मात्रां तद्वज्जठरशान्तये ॥ ६५ ॥
तथा सिद्धं घृतप्रस्थं पयस्यष्टगुणे पिबेत् ।
स्नुक्क्षीरपलकल्केन त्रिवृता षट्पलेन च ॥ ६६ ॥
स्नुक्क्षीरदन्तीत्रिफलाविडङ्ग-
सिंहीत्रिवृच्चित्रककल्कयुक्तम् ।
घृतं विपक्वं कुडवप्रमाणं
तोयेन तस्याक्षमथार्धकर्षम् ॥ ६७ ॥
पीत्वोष्णमम्भोऽनु पिबेद्विरिक्ते
पेयां सुखोष्णां वितरेद्विधिज्ञः ।
161-a
नाराचमेतज्जठरामयानां
युक्तोपयुक्तं शमनं प्रदिष्टम् ॥ ६८ ॥