163-a
हन्यात्पीतं तदर्शोघ्नं शोथघ्नं वह्रिदीपनम् ।
बलवर्णकरं चापि भस्मकं च नियच्छति ॥ २९ ॥
रोहितकत्वचः श्रेष्ठाः पलानां पञ्चविंशतिः ।
कोलद्विप्रस्थसंयुक्तं कषायमुपकल्पयेत् ॥ ३० ॥
पलिकैः पञ्चकोलैश्च तत्सर्वैश्चापि तुल्यया ।
रोहितकत्वचा पिष्टैर्घृतप्रस्थं विपाचयेत् ॥ ३१ ॥
प्लीहाभिवृद्धिं शमयेदेतदाशु प्रयोजितम् ।
तथा गुल्मज्वरश्वासक्रिमिपाण्डुत्वकामलाः ॥ ३२ ॥
१०रोहितकात्पलशतं क्षोदयेद्बदराढकम् ।
साधयित्वा जलद्रोणे चतुर्भागावशेषिते ॥ ३३ ॥
घृतप्रस्थं समावाप्य छागक्षीरचतुर्गुणम् ।
तस्मिन्दद्यादिमान्कल्कान्सर्वांस्तानक्षसम्मिताम् ॥ ३४ ॥
व्योपं फलत्रिकं हिङ्गु यमानीं तुम्बुरुं बिडम् ।
अजाजीं कृष्णलवणं दाडिमं देवदारु च ॥ ३५ ॥
पुनर्नवां विशालां च यवक्षारं सपौष्करम् ।
विडङ्गं चित्रकं चैवहपुषां चविकां वचाम् ॥ ३६ ॥
एतैर्घृतं विपक्वं तु स्थापयेद्भाजने दृढे ।
पाययेत्त्रिपलां मात्रां व्याधिं बलमपेक्ष्य च ॥ ३७ ॥
रसकेनाथ यूषेण पयसा वापि भोजयेत् ।
उपयुक्ते घृते तस्मिन्व्याधीन्हन्यादिमान्बहून् ॥ ३८ ॥
यकृत्प्लीहोदरं चैव प्लीहशूलं यकृत्तथा ।