163-b
कुक्षिशूलं च हृच्छूलं पार्श्वशूलमरोचकम् ॥ ३९ ॥
विबन्धशूलं शमयेत्पाण्डुरोगं सकामलम् ।
छर्द्यतीसारशमनं तन्द्राज्वरविनाशनम् ।
महारोहितकं नाम प्लीहघ्नं तु विशेषतः ॥ ४० ॥

Adhikāra 38

शुण्ठीपुनर्नवैरण्डपञ्चमूलशृतं जलम् ।
वातिके श्वयथौ शस्तं पानाहारपरिग्रहे ।
दशमूलं सर्वथा च शस्तं वाते विशेषतः ॥ १ ॥
क्षीराशनः पित्तकृतेऽथ शोथे
त्रिवृद्गुडूचीत्रिफलाकषायम् ।
पिबेद्गवां मूत्रविमिश्रितं वा
फलत्रिकाचूर्णमथाक्षमात्रम् ॥ २ ॥
अभयादारुमधुकतिक्ता दन्ती सपिप्पली ।
पटोलं चन्दनं दार्वी त्रायमाणेन्द्रवारुणी ॥ ३ ॥