Adhikāra 2

ज्वरातिसारे पेयादिक्रमः स्याल्लङ्घिते हितः ।
ज्वरातिसारी पेयां वा पिबेत्साम्लां शृतां नरः ॥ १ ॥
पृश्निपर्णीबलाबिल्वनागरोत्पलधान्यकैः ।
पाठेन्द्रयवभूनिम्बमुस्तपर्पटकामृताः ॥ २ ॥
जयन्त्याममतीसारं सज्वरं समहौषधाः ।
नागरातिविषामुस्तभूनिम्बामृतवत्सकैः ॥ ३ ॥
सर्वज्वरहरः क्वाथः सर्वातीसारनाशनः ।
ह्रीवेरातिविषामुस्तबिल्वधान्यकनागरैः ॥ ४ ॥
पिबेत्पिच्छाविबन्धघ्नं शूलदोषामपाचनम् ।
सरक्तं हन्त्यतीसारं सज्वरं वाथ विज्वरम् ॥ ५ ॥
गुडूच्यतिविषाधान्यशुण्ठीबिल्वाब्दबालकैः ।
पाठाभूनिम्बकुटजचन्दनोशीरपद्मकैः ॥ ६ ॥
कषायः शीतलः पेयो ज्वरातीसारशान्तये ।
हृल्लासारोचकच्छर्दिपिपासादाहनाशनः ॥ ७ ॥
20-a
उशीरं बालकं मुस्तं धन्याकं विश्वभेषजम् ।
समङ्गाधातकीलोध्रं बिल्वं दीपनपाचनम् ॥ ८ ॥
हन्त्यरोचकपिच्छामं विबन्धं सातिवेदनम् ।
सशोणितमतीसारं सज्वरं वाथ विज्वरम् ॥ ९ ॥
पञ्चमूलीबलाबिल्वगुडूचीमुस्तनागरैः ।
पाठाभूनिम्बह्रीवेरकुटजत्वक्फलैः शृतम् ॥ १० ॥
हन्ति सर्वानतीसाराञ्ज्वरदोषं वमिं तथा ।
सशूलोपद्रवं श्वासं कासं हन्यात्सुदारुणम् ॥ ११ ॥
कलिङ्गातिविषाशुण्ठीकिराताम्बुयवासकम् ।
ज्वरातीसारसन्तापं नाशयेदविकल्पतः ॥ १२ ॥
वत्सकं कट्फलं दारु रोहिणी गजपिप्पली ।
श्वदंष्ट्रा पिप्पली धान्यं बिल्वं पाठा यवानिका ॥ १३ ॥
द्वावप्येतौ सिद्धियोगौ श्लोकार्धेनाभिभाषितौ ।
ज्वरातीसारशमनौ विशेषाद्दाहशातनौ ॥ १४ ॥
नागरामृतभूनिम्बबिल्ववालकवत्सकैः ।
समुस्तातिविषोशीरैर्ज्वरातीसारहृज्जलम् ॥ १५ ॥
मुस्तकबिल्वातिविषापाठाभूनिम्बवत्सकैः क्वाथः ।
मकरन्दगर्भयुक्तो ज्वरातिसारौ जयेद्धोरौ ॥ १६ ॥
घनजलपाठातिविषापथ्योत्पलधान्यरोहिणीविश्वैः ।
सेन्द्रयवैः कृतमम्भः सातीसारं ज्वरं जयति ॥ १७ ॥
20-b
कलिङ्गबिल्वजम्ब्वाम्रकपित्थं सरसाञ्जनम् ।
लाक्षाहरिद्रे ह्रीवेरं कट्फलं शुक्रनासिकाम् ॥ १८ ॥
लोध्रं मोचरसं शङ्खं धातकीवटशुङ्गकम् ।
पिष्ट्वा तण्डुलतोयेन वटकानक्षसम्मितान् ॥ १९ ॥
छायाशुष्कान्पिबेच्छीघ्रं ज्वरातीसारशान्तये ।
रक्तप्रसादनाश्चैते शूलातीसारनाशनाः ॥ २० ॥
उत्पलं दाडिम्बत्वक्च पद्मकेशरमेव च ।
पिबेत्तण्डुलतोयेन ज्वरातीसारनाशनम् ॥ २१ ॥
व्योषं वत्सकबीजं च निम्बभूनिम्बमार्कवम् ।
चित्रकं रोहिणीं पाठां दार्वीमतिविषां समाम् ॥ २२ ॥
श्लक्ष्णचूर्णीकृतान्सर्वांस्तत्तुल्यां वत्सकत्वचम् ।
सर्वमेकत्र संयुज्य प्रपिबेत्तण्डुलाम्बुना ॥ २३ ॥
सक्षौद्रं वा लिहेदेतत्पाचनं ग्राहिभेषजम् ।
तृष्णारुचिप्रशमनं ज्वरातीसारनाशनम् ॥ २४ ॥
कामलां ग्रहणीदोषान् गुल्मं प्लीहानमेव च ।
प्रमेहं पाण्डुरोगं च श्वयथुं च विनाशयेत् ॥ २५ ॥
21-a
दशमूलीकषायेण विश्वमक्षसमं पिबेत् ।
ज्वरे च वातिसारे च सशोथे ग्रहणीगदे ॥ २६ ॥
विडङ्गातिविषामुस्तं दारु पाठा कलिङ्गकम् ।
मरीचेन समायुक्तं शोथातीसारनाशनम् ॥ २७ ॥
किराताब्दामृताविश्वचन्दनोदीच्यवत्सकैः ।
शोथातिसारशमनं विशेषाज्ज्वरनाशनम् ॥ २८ ॥
किराताब्दामृतोदीच्यमुस्तचन्दनधान्यकैः ।
शोथातिसारतृड्दाहशमनो ज्वरनाशनः ॥ २९ ॥