168-a
गुग्गुलुं रुबुतैलं वा गोमूत्रेण पिबेन्नरः ।
वातवृद्धिं निहन्त्याशु चिरकालानुबन्धिनीम् ॥ १ ॥
सक्षीरं वा पिबेत्तैलं मासमेरण्डसम्भवम् ।
पुनर्नवायास्तैलं वा तैलं नारायणं तथा ॥ २ ॥
पाने बस्तौ रुरोस्तैलं पेयं वा दशकाम्भसा ।
चन्दनं मधुकं पद्ममुशीरं नीलमुत्पलम् ॥ ३ ॥
क्षीरपिष्टैः प्रदेहः स्याद्दाहशोथरुजापहः ।
पञ्चवल्कलकल्केन सघृतेन प्रलेपनम् ॥ ४ ॥
सर्वं पित्तहरं कार्यं रक्तजे रक्तमोक्षणम् ।
श्लेष्मवृद्धिं तूष्णवीर्यैर्मूत्रपिष्टैः प्रलेपयेत् ॥ ५ ॥
पीतदारुकषायं च पिबेन्मूत्रेण संयुतम् ।
स्विन्नं मेदःसमुत्थं तु लेपयेत्सुरसादिना ॥ ६ ॥
शिरोविरेकद्रव्यैर्वा सुखोष्णैर्मूत्रसंयुतैः ।
संस्वेद्य मूत्रप्रभवां वस्त्रपट्टेन वेष्टयेत् ॥ ७ ॥
सीवन्याः पार्श्वतोऽधस्ताद्विध्येद्व्रीहिमुखेन वै ।
शङ्खोपरि च कर्णान्ते त्यक्त्वा सीवनिमादहेत् ॥ ८ ॥
व्यत्यासाद्वा शिरां विध्येदन्त्रवृद्धिनिवृत्तये ।
अङ्गुष्ठमध्ये त्वक् छित्त्वा दहेदङ्गविपर्यये ॥ ९ ॥