Adhikāra 42
१जलौकापातनं शस्तं सर्वस्मिन्नेव विद्रधौ ।
मृदुर्विरेको लघ्वन्नं स्वेदः पित्तोत्तरं विना ॥ १ ॥
वातघ्नमूलकल्कैस्तु वसातैलघृतप्लुतैः ।
सुखोष्णो बहलो लेपः प्रयोज्यो वातविद्रधौ ॥ २ ॥
स्वेदोपनाहाः कर्तव्याः शिग्रुमूलसमन्विताः ।
यवगोधूममुद्गैश्च सिद्धापिष्टैः प्रलेपयेत् ॥ ३ ॥
विलीयते क्षणेनैवमपक्वश्चैव विद्रधिः ।
पुनर्नवादारुविश्वदशमूलाभयाम्भसा ॥ ४ ॥
गुग्गुलुं रुबुतैलं वा पिबेन्मारुतविद्रधौ ।
पैत्तिकं शर्करालाजा मधुकैः शारिवायुतैः ॥ ५ ॥
प्रदिह्यात्क्षीरपिष्टैर्वा पयस्योशीरचन्दनैः ।
पिबेद्वा त्रिफलाक्वाथं त्रिवृत्कल्काक्षसंयुतम् ॥ ६ ॥
पञ्चवल्कलकल्केन घृतमिश्रेण लेपनम् ।
यष्ट्याह्वशारिवादूर्वानलमूलैः सचन्दनैः ॥ ७ ॥
क्षीरपिष्टैः प्रलेपस्तु पित्तविद्रधिशान्तये ।
इष्टका सिकतालोहगोशकृत्तुषपांशुभिः ॥ ८ ॥
मूत्रपिष्टैश्च सततं स्वेदयेत् च्छ्लेष्मविद्रधिम् ।
दशमूलकषायेण सस्नेहेन रसेन वा ॥ ९ ॥
शोथं व्रणं वा कोष्णेन सशूलं परिषेचयेत् ।
त्रिफलाशिग्रुवरुणदशमूलाम्भसा पिबेत् ॥ १० ॥
गुग्गुलुं मूत्रयुक्तं वा विद्रधौ कफसम्भवे ।
पित्तविद्रधिवत्सर्वां क्रियां निरवशेषतः ॥ ११ ॥
विद्रध्योः कुशलः कुर्याद्रक्तागन्तुनिमित्तयोः ।
शोभाञ्जनकनिर्यूहो हिङ्गुसैन्धवसंयुतः ॥ १२ ॥
अचिरं विद्रधिं हन्ति प्रातःप्रातर्निषेवितः ।
शिग्रुमूलं जले धौतं दरपिष्टं प्रगालयेत् ॥ १३ ॥
तद्रसं मधुना पीत्वा हन्त्यन्तर्विद्रधिं नरः ।
श्वेतवर्षाभुवो मूलं मूलं वरुणकस्य च ॥ १४ ॥
जलेन क्वथितं पीतमपक्वं विद्रधिं जयेत् ।
वरुणादिगणक्वाथमपक्वेऽभ्यन्तरोत्थिते ।
उषकादिप्रतीवापं पिबेत्संशमनाय वै ॥ १५ ॥
शमयति पाठामूलं
क्षौद्रयुतं तण्डुलाम्भसा पीतम् ।
अन्तर्भूतं विद्रधि-
मुद्धतमाश्वेव मनुजस्य ॥ १६ ॥
अपक्वे त्वेतदुद्दिष्टं पक्वे तु व्रणवत्क्रिया ॥ १७ ॥
स्रुतेऽप्यूर्ध्वमधश्चैव मैरेयाम्लसुरासवैः ।
पेयो वरुणकादिस्तु मधुशिग्रुरसोऽथवा ॥ १८ ॥
प्रियङ्गुधातकीलोध्रं कट्फलं तिलिशत्वचम् ।
एतैस्तैलं विपक्तव्यं विद्रधौ रोपणं परम् ॥ १९ ॥