Adhikāra 43

177-a
आदौ विम्लापनं कुर्याद्द्वितीयमवसेचनम् ।
177-b
तृतीयमुपनाहं च चतुर्थीं पाटनक्रियाम् ॥ १ ॥
पञ्चमं शोधनं चैव षष्ठं रोपणमिष्यते ।
एते क्रमा व्रणस्योक्ताः सप्तमो वैकृतापहः ॥ २ ॥
मातुलुङ्गाग्निमन्थौ च भद्रदारुमहौषधम् ।
अहिंस्रा चैव रास्ना च प्रलेपो वातशोथहा ॥ ३ ॥
कल्कः काञ्जिकसम्पिष्टः स्निग्धः शाखोटकत्वचः ।
सुपर्ण इव नागानां रक्तशोथविनाशनः ॥ ४ ॥
दूर्वा च नलमूलं च मधुकं चन्दनं तथा ।
शीतलाश्च गणाः सर्वे प्रलेपः पित्तशोथहा ॥ ५ ॥
न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः ।
ससर्पिष्कैः प्रलेपः स्याच्छोथनिर्वापणः स्मृतः ॥ ६ ॥
आगन्तौ शोणितोत्थे च एष एव क्रियाक्रमः ।
अजगन्धाश्वगन्धा च काला सरलया सह ॥ ७ ॥
एकेशिकाजशृङ्गी च प्रलेपः श्लेष्मशोथहा ।
पुनर्नवाशिग्रुदारुदशमूलमहौषधैः ॥ ८ ॥
कफवातकृते शोथे लेपः कोष्णो विधीयते ।
न रात्रौ लेपनं दद्याद्दत्तं च पतितं तथा ॥ ९ ॥
न च पर्युषितं शुष्यमाणं नैवावधारयेत् ।
शुष्यमाणमुपेक्षेत प्रदेहं पीडनं प्रति ॥ १० ॥
न चापि मुखमालिम्पेत्तेन दोषः प्रसिच्यते ।
स्थिरान्मन्दरुजः शोथान्स्नेहैर्वातकफापहैः ॥ ११ ॥
अभ्यज्य स्वेदयित्वा च वेणुनाड्या ततः शनैः ।
विम्लापनार्थं मृद्गीयात्तलेताङ्गुष्ठकेन वा ॥ १२ ॥
रक्तावसेचनं कुर्यादादावेव विचक्षणः ।
शोथे महति संबद्धे वेदनावति च व्रणे ॥ १३ ॥
178-a
यो न याति शमं लेपस्वेदसेकापतर्पणैः ।
सोऽपि नाशं व्रजत्याशु शोथः शोणितमोक्षणात् ॥ १४ ॥
एकतश्च क्रियाः सर्वा रक्तमोक्षणमेकतः ।
रक्तं हि व्यम्लतां याति तच्चेन्नास्ति न चास्ति रुक् ॥ १५ ॥
स चेदेवमुपाक्रान्तः शोथो न प्रशमं व्रजेत् ।
तस्योपनाहैः पक्वस्य पाटनं हितमुच्यते ॥ १६ ॥
तैलेन सर्पिषा वापि ताभ्यां वा शक्तुपिण्डिका ।
सुखोष्णः शोथपाकार्थमुपनाहः प्रशस्यते ॥ १७ ॥
सतिला सातसीबीजा दध्यम्लाशक्तुपिण्डिका ।
सकिण्वकुष्ठलवणा शस्ता स्यादुपनाहने ॥ १८ ॥
बालवृद्धासहक्षीणभीरूणां योषितामपि ।
मर्मोपरि च जाते च पक्वे शोथे च दारुणे ।
गवां दन्तं जले घृष्टं न्विदुमात्रं प्रलेपयेत् ॥ १९ ॥
अत्यन्तकठिने चापि शोथे पाचनभेदनम् ।
कटुतैलान्वितैर्लेपात्सर्पनिर्मोकभस्मभिः ॥ २० ॥
चयः शाम्यति गण्डस्य प्रकोपः स्फुटति द्रुतम् ।
चिरबिल्वाग्निकौ दन्ती चित्रको हयमारकः ॥ २१ ॥
कपोतकङ्कगृध्राणां पुरीषाणि च दारणम् ।
क्षारद्रव्याणि वा यानि क्षारो वा दारणः परः ॥ २२ ॥
द्रव्याणां पिच्छिलानां तु त्वङ्मूलानि प्रपीडनम् ।
यवगोधूममाषाणां चूर्णानि च समासतः ॥ २३ ॥
ततः प्रक्षालनं क्वाथः पटोलीनिम्बपत्रजः ।
अविशुद्धे विशुद्धे च न्यग्रोधादित्वगुद्भवः ॥ २४ ॥
178-b
पञ्चमूलद्वयं वाते न्यग्रोधादिश्च पैत्तिके ।
आरग्वधादिको योज्यः कफजे सर्वकर्मसु ॥ २५ ॥
तिलकल्कः सलवणो द्वे हरिद्रे त्रिवृद्धृतम् ।
मधुकं निम्बपत्राणि लेपः स्याद्व्रणशोधनः ॥ २६ ॥
निम्बपत्रं तिला दन्ती त्रिवृत्सैन्धवमाक्षिकम् ।
179-a
दुष्टव्रणप्रशमनो लेपः शोधनकेसरी ॥ २७ ॥
एकं वा शारिवामूलं सर्वव्रणविशोधनम् ।
पटोलं तिलयष्ट्याह्वत्रिवृद्दन्तीनिशाह्वयम् ॥ २८ ॥
निम्बपत्राणि चालेपः सपटुव्रणशोधनः ।
त्रिफलाखदिरो दार्वीन्यग्रोधादिबला कुशाः ॥ २९ ॥
निम्बकोलकपत्राणि कषायः शोधने हितः ।
अनेन पूतिमांसानां मांसस्थानमरोहताम् ॥ ३० ॥
कल्कः संरोपणः कार्यस्तिलानां मधुकान्वितः ।
निम्बपत्रमधुभ्यां तु युक्तः संशोधनः स्मृतः ॥ ३१ ॥
पूर्वाभ्यां सर्पिषा वापि युक्तश्चाप्युपरोहणः ।
निम्बपत्रतिलैः कल्को मधुना क्षतशोधनः ।
रोपणः सर्पिषा युक्तो यवकल्केऽप्ययं विधिः ॥ ३२ ॥
निम्बपत्रघृतक्षौद्रदार्वीमधुकसंयुता ।
वर्तिस्तिलानां कल्को वा शोथयेद्रोपयेद्व्रणम् ॥ ३३ ॥
सप्तदलदुग्धकल्कः
शमयति दुष्टव्रणं प्रलेपेन ।
मधुयुक्ता शरपुङ्खा
सर्वब्रणरोपणी कथिता ॥ ३४ ॥
179-b
मानुषशिरः कपालं
तदस्थि वा लेपयेत मूत्रेण ।
रोपणमिदं क्षतानां
योगशतैरप्यसाध्यानाम् ॥ ३५ ॥
व्रणान्विशोधयेद्वर्त्या सूक्ष्मास्यान्मर्मसन्धिगान् ।
अभयात्रिवृतादन्तीलाङ्गलीमधुसैन्धवैः ॥ ३६ ॥
सुषवीपत्रपत्तूरकर्णमोटकुठेरकाः ।
पृथगेते प्रलेपेन गम्भीरव्रणरोपणाः ॥ ३७ ॥
पञ्चवल्कलचूर्णैर्वा शुक्तिचूर्णसमन्वितैः ।
धातकीचूर्णलोध्रैर्वा तथा रोहन्ति ते व्रणाः ॥ ३८ ॥
सदाहा वेदनावन्तो व्रणा ये मारुतोत्तराः ।
तेषां तिलानुमांश्चैव भृष्टान्पयसि निर्वृतान् ॥ ३९ ॥
तेनैव पयसा पिष्ट्वा दद्यादालेपनं भिषक् ।
वातादिभूतान्सास्रावान्धूपयेदुग्रवेदनान् ॥ ४० ॥
यवाज्यभूर्जमदनश्रीवेष्टकसुराह्वयैः ।
श्रीवासगुग्गुल्वगुरुशालनिर्यासधूपिताः ॥ ४१ ॥
कठिनत्वं व्रणा यान्ति नश्यन्त्युग्राश्च वेदनाः ॥ ४२ ॥
तिलाः पयः सिता क्षौद्रं तैलं मधुकचन्दनम् ।
लेपेन शोथरुग्दाहरक्तं निर्वापयेद्व्रणान् ॥ ४३ ॥
पित्तविद्रधिवीसर्पशमनं लेपनादिकम् ।
अग्निदग्धे व्रणे सम्यक्प्रयुञ्जीत चिकित्सकः ॥ ४४ ॥
महाराष्ट्रिजटालेपो दग्धपिष्टावचूर्णितम् ।
जीर्णगेहतृणाच्चूर्णं दग्धव्रणहितं मतम् ॥ ४५ ॥
180-a
जीवककल्कं पश्चा-
त्सिक्थकसर्जरसमिश्रितं हरति ।
घृतमभ्यङ्गात्पावक-
दग्धो दुःखं क्षणार्धेन ॥ ४६ ॥
अन्तर्दग्धकुठारको दहनजं लेपान्निहन्ति व्रण-
मश्वत्थस्यविशुष्कवल्कलकृतं चूर्णं तथा गुण्डनात्
अभ्यङ्गाद्विनिहन्तितैलमखिलं गण्डूपदैः साधितं
पिष्ट्वा शाल्मलितूलकैर्जलगता लेपात्तथा वालुकाः ॥ ४७ ॥
सद्यः क्षतं व्रणं वैद्यः सशूलं परिषेचयेत् ।
यष्टीमधुककल्केन किञ्चिदुष्णेन सर्पिषा ॥ ४८ ॥
बुद्ध्वागन्तुव्रणं वैद्यो घृतं क्षौद्रसमन्वितम् ।
शीतां क्रियां प्रयुञ्जीत पित्तरक्तोष्मनाशिनीम् ॥ ४९ ॥
कान्तक्रमुकमेकं सुश्लक्ष्णं गव्यसर्पिषा पिष्टम् ।
शमयति लेपान्नियतं व्रणमागन्तूद्भवं न सन्देहः ॥ ५० ॥
अपामार्गस्य संसिक्तं पत्रोत्थेन रसेन वा ।
सद्यो व्रणेषु रक्तं तु प्रवृत्तं परितिष्ठति ॥ ५१ ॥
कर्पूरपूरितं बद्धं सघृतं संप्ररोहति ।
सद्यः शस्त्रक्षतं पुंसां व्यथापाकविवर्जितम् ॥ ५२ ॥
शरपुङ्खा काकजङ्घा प्रसूत महिषीमलम् ।
लज्जा च सद्यस्कव्रणघ्नं पृथगेव तु ॥ ५३ ॥
शुनो जिह्वाकृतश्चूर्णः सद्यः क्षतविरोहणः ।
चक्रतैलं क्षते विद्धे रोपणं परमं मतम् ॥ ५४ ॥
यवक्षारं भक्षयित्वा पिण्डं दद्याद्व्रणोपरि ।
शृंगालकोलिमूलेन नष्टशैलं विनिःसरेत् ॥ ५५ ॥
लाङ्गलीमूललेपाद्वा गवाक्षीमूलतस्तथा ।
क्षतोष्मणो निग्रहार्थं तत्कालं विसृतस्य च ॥ ५६ ॥
180-b
कषायशीतमधुराः स्निग्धा लेपादयो हिताः
आमाशयस्थे रुधिरे वमनं पथ्यमुच्यते ॥ ५७ ॥
पक्वाशयस्थे देयं च विरेचनमसंशयः ।
क्वाथो वंशत्वगेरण्डश्वदंष्ट्राश्मभिदा कृतः ॥ ५८ ॥
सहिङ्गुसैन्धवः पीतः कोष्ठस्थं स्रावयेदसृक् ।
यवकोलकुलत्थानां निःस्नेहेन रसेन च ॥ ५९ ॥
भुञ्जीतान्नं यवागूं वा पिबेत्सैन्धवसंयुताम् ।
अत्यर्थमस्रं स्रवति प्रायशो यत्र वीक्षते ॥ ६० ॥
ततो रक्तक्षयाद्वायौ कुपितेऽतिरुजाकरे ।
स्नेहपानं परीषेकं स्नेहलेपोपनाहनम् ॥ ६१ ॥
181-a
स्नेहबस्तिं च कुर्वीत वातघ्नौषधसाधिताम् ।
इति साप्ताहिकः प्रोक्तः सद्यो व्रणहितो विधिः ॥ ६२ ॥
सप्ताहात्परतः कुर्याच्छारीरव्रणवत्क्रियाम् ।
करञ्जारिष्टनिर्गुण्डीरसो हन्याद्व्रणक्रिमीन् ॥ ६३ ॥
कलायविदलीपत्रं कोषाम्रास्थि च पूरणात् ।
सुरसादिरसैः सेको लेपनः स्वरसेन वा ॥ ६४ ॥
निम्बसम्पाकजात्यर्कसप्तपर्णाश्वमारकाः ।
क्रिमिघ्ना मूत्रसंयुक्ताः सेका लेपनधावनैः ॥ ६५ ॥
प्रक्षाल्य मांसपेष्या वा क्रिमीनपहरेद्व्रणान् ।
लशुनेनाथवा दद्याल्लेपनं क्रिमिनाशनम् ॥ ६६ ॥
ये क्लेदपाकस्रुतिगन्धवन्तो
व्रणा महान्तः सरुजः सशोथाः ।
प्रयान्ति ते गुग्गुलुमिश्रितेन
पीतेन शान्तिं त्रिफलारसेन ॥ ६७ ॥
181-b
त्रिफलाचूर्णसंयुक्तो गुग्गुलुर्वटकीकृतः ।
निर्यन्त्रणो विबन्धघ्नो व्रणशोधनरोपणः ॥ ६८ ॥
अमृतागुग्गुलुः शस्तो हितं तैलं च वज्रकम् ।
विडङ्गत्रिफलाव्योषचूर्णं गुग्गुलुना समम् ॥ ६९ ॥
सर्पिषा वटकीकृत्वा खादेद्वा हितभोजनः ।
दुष्टव्रणापचीमेहकुष्ठनाडीव्रणापहः ॥ ७० ॥
१०अमृतापटोलमूल-
त्रिफलात्रिकटुक्रिमिघ्नानाम् ।
समभागानां चूर्णं
सर्वसमो गुग्गुलोर्भागः ॥ ७१ ॥
प्रतिवासरमेकैकां
खादेदक्षणप्रमाणाम् ।
जेतुं व्रणान्वातासृ-
ग्गुल्मोदरश्वयथुरोगादीन् ॥ ७२ ॥
११जातीनिम्बपटोलपत्रकटुकादार्वीनिशाशा-
रिवामञ्जिष्ठाभयतुत्थसिक्थमधुकैर्नक्ताह्वबीजैः
समैः सर्पिः सिद्धमनेन सूक्ष्मवदना मर्माश्रिताः
स्राविणो गम्भीराः सरुजो व्रणाः सगतिकाः
शुष्यन्ति रोहन्ति च ॥ ७३ ॥
182-a
१२गौरा हरिद्रा मञ्जिष्ठा मांसी मधुकमेव च ।
प्रपौण्डरीकं ह्रीबेरं भद्रमुस्तं सचन्दनम् ॥ ७४ ॥
जातीनिम्बपटोलं च करञ्जं कटुरोहिणी ।
मधूच्छिष्टं समधुकं महामेदा तथैव च ॥ ७५ ॥
पञ्चवल्कलतोयेन घृतप्रस्थं विपाचयेत् ।
एष गौरो महावीर्यः सर्वब्रणविशोधनः ॥ ७६ ॥
आगन्तुः सहजाश्चैव सुचिरोत्थाश्च ये व्रणाः ।
विषमामपि नाडीं च शोधयेच्छीघ्रमेव च ॥ ७७ ॥
गौराद्यं जातिकाद्यं च तैलमेवं प्रसाध्यते ।
तैलं सूक्ष्मानने दुष्टे व्रणे गम्भीर एव च ॥ ७८ ॥
१३नक्तमालस्य पत्राणि वरुणानि फलानि च ।
सुमनायाश्च पत्राणि पटोलारिष्टयोस्तथा ॥ ७९ ॥
द्वे हरिद्रे मधूच्छिष्टं मधुकं तिक्तरोहिणी ।
मञ्जिष्ठा चन्दनोशीरमुत्पलं शारिवे त्रिवृत् ।
एतेषां कार्षिकैर्भागैर्घृतप्रस्थं विपाचयेत् ॥ ८० ॥
दुष्टव्रणप्रशमनं तथा नाडीविशोधनम् ।
सद्यश्छिन्नव्रणानां च करञ्जाद्यमिहेष्यते ॥ ८१ ॥
182-b
१४प्रपौण्डरीकमञ्जिष्ठामधुकोशीरपद्मकैः ।
सहरिद्रैः शृतं सर्पिः सक्षीरं व्रणरोपणम् ॥ ८२ ॥
१५तिक्तासिक्थनिशायष्टीनक्ताह्वफलपल्लवैः ।
पटोलमालतीनिम्बपत्रैर्व्रण्यं घृतं पचेत् ॥ ८३ ॥
१६सिन्दूरकुष्ठविषहिङ्गुरसोनचित्र
बाणाङ्घ्रिलाङ्गलिककल्कविपक्वतैलम् ।
प्रासादमन्त्रयुतफूत्कृतनुन्नफेनो
दुष्टव्रणप्रशमनो विपरीतमल्लः ॥ ८४ ॥
खङ्गाभिघातगुरुगण्डमहोपदंश-
नाडीव्रणव्रणविचर्चिककुष्ठपामाः ।
एतान्निहन्ति विपरीतकमल्लनाम
तैलं यथेष्टशयनासनभोजनस्य ॥ ८५ ॥
१७कुठारकात्पलशतं साधयेल्लल्वनेऽम्भसि ।
तेन पादावशेषेण तैलप्रस्थं विपाचयेत् ॥ ८६ ॥
कल्कैः कुठारापामार्गप्रोष्ठिकामक्षिकायुतैः ॥ ८७ ॥
183-a
१८प्रपौण्डरीकं मधुकं काकोल्यौ द्वे सचन्दने ।
सिद्धमेभिः समं तैलं तत्परं व्रणरोपणम् ॥ ८८ ॥
१९दूर्वास्वरससिद्धं वा तैलं कम्पिल्लकेन च ।
दार्वीत्वचश्च कल्केन प्रधानं रोपणं व्रणे ॥ ८९ ॥
येनैव विधिना तैलं घृतं तेनैव साधयेत् ।
रक्तपित्तोत्तरं ज्ञात्वा सर्पिरेवावपाचयेत् ॥ ९० ॥
२०मञ्जिष्ठां चन्दनं मूर्वां पिष्ट्वा सर्पिर्विपाचयेत् ।
सर्वेषामग्निदग्धानामेतद्रोपणमिष्यते ॥ ९१ ॥
२१सिद्धं कषायकल्काभ्यां पाटल्याः कटुतैलकम् ।
दग्धव्रणरुजास्रावदाहविस्फोटनाशनम् ॥ ९२ ॥
२२चन्दनं घटशुङ्गं च मञ्जिष्ठा मधुकं तथा ।
प्रपौण्डरीकं मूर्वा च पतङ्गं धातकी तथा ॥ ९३ ॥
एभिस्तैलं विपक्तव्यं सर्पिः क्षीरसमन्वितम् ।
अग्निदग्धव्रणेष्विष्टं म्रक्षणाद्रोपणं परम् ॥ ९४ ॥
183-b
२३मनःशिलाले मञ्जिष्ठा सलाक्षारजनीद्वयम् ।
प्रलेपः सघृतक्षौद्रस्त्वग्विशुद्धिकरः परः ॥ ९५ ॥
अयोरजः सकासीसं त्रिफलाकुसुमानि च ।
प्रलेपः कुरुते कार्ष्ण्यं सर्व एव नवत्वचि ॥ ९६ ॥
कालीयकलताम्रास्थिहेमकालारसोत्तमैः ।
लेपः सगोमयरसः सवर्णकरणः परः ॥ ९७ ॥
चतुष्पदां हि त्वग्रोमखुरशृङ्गास्थिभस्मना ।
तैलाक्ता चूर्णिता भूमिर्भवेद्रोमवती पुनः ।
व्रणग्रन्थिं ग्रन्थिवच्च जयेत्क्षारेण वा भिषक् ॥ ९८ ॥