186-a
खरास्रपक्वभूरोगचूर्णलेपो भगन्दरम् ।
हन्ति दन्त्यग्न्यतिविषालेपस्तद्वच्छुनोऽस्थि वा ॥ ११ ॥
त्रिफलारससंयुक्तं बिडालास्थिप्रलेपनम् ।
भगन्दरं निहन्त्याशु दुष्टव्रणहरं परम् ॥ १२ ॥
त्रिफलापुरकृष्णानां त्रिपञ्चैकांशयोजिता ।
गुडिका शोथगुल्मार्शोभगन्दरवतां हिता ॥ १३ ॥
त्रिकटुत्रिफलामुस्तविडङ्गामृतचित्रकम् ।
शठ्येलापिप्पलीमूलं हपुषा सुरदारु च ॥ १४ ॥
तुम्बुरु पुष्करं चव्यं विशाला रजनीद्वयम् ।
बिडं सौवर्चलं क्षारौ सैन्धवं गजपिप्पली ॥ १५ ॥
यावन्त्येतानि चूर्णानि तावद्द्विगुणगुग्गुलुः ।
कोलप्रमाणां गुडिकां भक्षयेन्मधुना सह ॥ १६ ॥