Adhikāra 46

स्निग्धस्विन्नशरीरस्य ध्वजमध्ये शिराव्यधः ।
जलौकःपातनं वा स्यादूर्ध्वाधः शोधनं तथा ।
पाको रक्ष्यः प्रयत्नेन शिश्नक्षयकरो हि सः ॥ १ ॥
पटोलनिम्बत्रिफलाडुगूची-
क्वाथं पिबेद्वा खदिराशनाभ्याम् ।
सगुग्गुलुं वा त्रिफलायुतं वा
सर्वोपदंशापहरः प्रयोगः ॥ २ ॥
187-b
प्रपौण्डरीकं मधुकं रास्ना कुष्ठं पुनर्नवा ।
शरलागुरुभद्राह्वैर्वातिके लेपसेचने ॥ ३ ॥
गैरिकाञ्जनमञ्जिष्ठामधुकोशीरपद्मकैः ।
सचन्दनोत्पलैः स्निग्धैः पैत्तिकं संप्रलेपयेत् ॥ ४ ॥
निम्बार्जुनाश्वत्थकदम्बशाल-
जम्बूवटोदुम्बरवेतसेषु ।
प्रक्षालनालेपघृतानि कुर्या-
च्चूर्णानि पित्तास्रभवोपदंशे ॥ ५ ॥
त्रिफलायाः कषायेण भृङ्गराजरसेन वा ।
व्रणप्रक्षालनं कुर्यादुपदंशप्रशान्तये ॥ ६ ॥
दहेत्कटाहे त्रिफलां समांशां मधुसंयुताम् ।
उपदंशे प्रलेपोऽयं सद्यो रोपयति व्रणम् ॥ ७ ॥
रसाञ्जनं शिरीषेण पथ्यया वा समन्वितम् ।
सक्षौद्रं वा प्रलेपेन सर्वलिङ्गगदापहम् ॥ ८ ॥
बब्बोलदलचूर्णेन दाडिमत्वग्भवेन वा ।
गुण्डनं न्रस्थिचूर्णेन उपदंशहरं परम् ॥ ९ ॥
लेपः पूगफलेनाश्वमारमूलेन वा तथा ।
सेवेन्नित्यं यवान्नं च पानीयं कौपमेव च ॥ १० ॥
जयाजात्यश्वमारार्कसम्पाकानां दलैः पृथक् ।
कृतं प्रक्षालने क्वाथं मेढ्रपाके प्रयोजयेत् ॥ ११ ॥
188-a
भूनिम्बनिम्बत्रिफलापटोल-
करञ्जजातीखदिराशनानाम् ।
सतोयकल्कैर्घृतमाशु पक्वं
सर्वोपदंशापहरं प्रदिष्टम् ॥ १२ ॥
करञ्जनिम्बार्जुनशालजम्बू-
वटादिभिः कल्ककषायसिद्धम् ।
सर्पिर्निहन्यादुपदंशदोषं
सदाहपाकं स्रुतिरागयुक्तम् ॥ १३ ॥
अगारधूमरजनीसुराकिट्टं च तैस्त्रिभिः ।
भागोत्तरैः पचेत्तैलं कण्डूशोथरुजापहम् ।
शोधनं रोपणं चैव सवर्णकरणं तथा ॥ १४ ॥
अर्शसां छिन्नदग्धानां क्रिया कार्योपदंशवत् ॥ १५ ॥