Adhikāra 47

हितं च सर्पिषः पानं पथ्यं चापि विरेचनम् ।
188-b
हितः शोणितमोक्षश्च यच्चापि लघुभोजनम् ॥ १ ॥
सर्षपीं लिखितां सूक्ष्मैः कषायैरवचूर्णयेत् ।
तैरेवाभ्यञ्जनं तैलं साधयेद्व्रणरोपणम् ॥ २ ॥
क्रियेयमधिमन्थेऽपि रक्तं स्राव्यं तथोभयोः ।
अष्ठीलायां हृते रक्ते श्लेष्मग्रन्थिवदाचरेत् ॥ ३ ॥
कुम्भिकायां हरेद्रक्तं पक्वायां शोधिते व्रणे ।
तिन्दुकत्रिफलालोध्रैर्लैपस्तैलं च रोपणम् ॥ ४ ॥
अलज्यां हृतरक्तायामयमेव क्रियाक्रमः ।
स्वेदयेद्ग्रथितं स्निग्धं नाडीस्वेदेन बुद्धिमान् ॥ ५ ॥
सुखोष्णैरुपनाहैश्च सस्निग्धैरुपनाहयेत् ।
उत्तमाख्यां तु पिडकां संच्छिद्य बडिशोद्धृताम् ॥ ६ ॥
कल्कैश्चूर्णैः कषायाणां क्षौद्रयुक्तैरुपाचरेत् ।
क्रमः पित्तविसर्पोक्तः पुष्करीमूढयोर्हितः ॥ ७ ॥
त्वक्पाके स्पर्शहान्यां च सेचयेन्मृदितं पुनः ।
बलातैलेन कोष्णेन मधुरैश्चोपनाहयेत् ॥ ८ ॥
रसक्रिया विधातव्या लिखिते शतपोलके ।
पृथक्पर्ण्यादिसिद्धं च तैलं देयमनन्तरम् ॥ ९ ॥
पित्तविद्रधिवच्चापि क्रिया शोणितजेऽर्बुदे ।
कषायकल्कसर्पींषि तैलं चूर्णं रसक्रियाम् ॥ १० ॥
शोधने रोपणे चैव वीक्ष्य वीक्ष्यावतारयेत् ।
अर्बुदं मांसपाकं च विद्रधिं तिलकालकम् ।
प्रत्याख्याय प्रकुर्वीत भिषक्तेषां प्रतिक्रियाम् ॥ ११ ॥