अथ कृतिः—
कृतिर्लब्धार्थशमनं
  यथा रत्नावल्याम्—
   को देव्याः प्रसादं न बहु मन्यते ।
    
  
 इत्यन्योन्यवचसा 428लब्धाया रत्नावल्या राज्ञः सुश्लिष्टये उपशमनात् कृतिरिति ।राजा
    
यथा च 429वेणीसंहारे—
   एते खलु भगवन्तो व्यासवाल्मीकि—430
    
इत्यादिना अभिषेकमारब्धवन्तस्तिष्ठन्ति । इत्यनेन प्राप्तराज्यस्याभिषेकमङ्गलैः स्थिरीकरणं कृतिः ।कृष्णः
    
