63 अथ प्रशस्तिः—
प्रशस्तिः शुभशंसनम् ।
यथा वेणीसंहारे—
प्रीततरश्चेद् भवान्, तदिदमेवमस्तु—441
इत्येतानि चतुर्दश निर्वहणाङ्गानि । एवं चतुःषष्ट्यङ्गसमन्धिताः पञ्चसंधयः प्रतिपादिताः ।
षट्प्रकारं चाङ्गानां प्रयोजनमित्याह—
उक्ताङ्गानां चतुःषष्टिः षोढा चैषां प्रयोजनम् ॥ ५४ ॥
कानि पुनस्तानि षट् प्रयोजनानि—
इष्टस्यार्थस्य रचना गोप्यगुप्तिः प्रकाशनम् ।
रागः प्रयोगस्याश्चर्यं वृत्तान्तस्यानुपक्षयः ॥ ५५ ॥
विवक्षितार्थनिबन्धनं गोप्यार्थगोपनं प्रकाश्यार्थप्रकाशनमभिनयरागवृद्धिश्चमत्कारित्वं444 च काव्यस्येतिवृत्तस्य विस्तर इत्यङ्गैः षट् प्रयोजनानि संपाद्यन्त इति ।