अथ व्याधिः—
व्याधयः संनिपाताद्यास्तेषामन्यत्र विस्तरः ॥ २९ ॥
दिङ्मात्रं तु यथा—
अच्छिन्नं नयनाम्बु बन्धुषु कृतं चिन्ता गुरुभ्योऽर्पिता
दत्तं दैन्यमशेषतः परिजने तापः सखीष्वाहितः ।
अद्य श्वः परिनिर्वृतिं व्रजति सा श्वासैः परं खिद्यते
विश्रब्धो भव विप्रयोगजनितं दुःखं विभक्तं तया ॥