अथ विषादः—

प्रारब्धकार्यासिद्ध्यादेर्विषादः सत्त्वसंक्षयः ।
निःश्वासोच्छ्वासहृत्तापसहायान्वेषणादिकृत् ॥ ३१ ॥

यथा वीरचरिते—

हा आर्ये ताटके, किं हि नामैतत् । अम्वुनि मज्जन्त्यलाबूनि, ग्रावाणः प्लवन्ते ।

नन्वेष राक्षसपतेः स्खलितः प्रतापः प्राप्तोऽद्भुतः परिभवो हि मनुष्यपोतात् ।
दृष्टः स्थितेन च मया स्वजनप्रमाथो दैन्यं जरा च निरुणद्धि कथं करोमि ॥
891892

  1. A.T.A. reads one more example for viṣāda as yathā vā—arthitve prakaṭīkṛte ’pi ity ādi.

  2. वी॰ च॰ १ । ४०