कः पुनरेतेषां काव्येनापि संबन्धः ? न तावद् वाच्यवाचकभावः, स्वशब्दैरनावेदित्वात् । न हि शृङ्गारादिरसेषु काव्येषु शृङ्गारादिशब्दा205 रत्यादिशब्दा वा श्रूयन्ते । येन तेषां तत्परिपोषस्य वाभिधेयत्वं स्यात् । यत्रापि च श्रूयन्ते तत्रापि विभावादिद्वारकमेव रसत्वमेतेषां न स्वशब्दाभिधेयत्वमात्रेण । नापि लक्ष्यलक्षकभावः, तत्सामान्याभिधायिनस्तल्लक्षकस्य973 पदस्याप्रयोगात् । नापि 974लक्षितलक्षणया तत्प्रतिपत्तिः । 975 उक्तं च—

क्रियासमन्वयायोगाच्छब्दः स्वार्थे स्खलद्गतिः ।
अर्थान्तरं क्रियायोग्यं लक्षयेदिति लक्षणा ॥
इति । यथा गङ्गायां घोषः इत्यादौ । तत्र हि स्वार्थे स्रोतोलक्षणे घोषस्यावस्थानासंभवात् स्वार्थे स्खलद्गतिर्गङ्गाशब्दः 976स्वार्थाविनाभूतार्थलक्षणं तटमुपलक्षयति । अत्र तु नायकादिशब्दाः स्वार्थेऽस्खलद्गतयः कथमिवार्थान्तरमुपलक्षयेतुः ? को वा निमित्तप्रयोजनाभ्यां विना मुख्ये सत्युपचरितं प्रयुञ्चीत ? सिंहो माणवकः इत्यादिवत् । अत एव गुणवृत्त्यापि नेयं प्रतीतिः । यदि च वाच्यत्वं रसप्रतिपत्तेः स्यात् तदा केवलवाच्यवाचकभावमात्रव्युत्पन्नचेतसामप्यरसिकानां रसास्वादो भवेत् ! न च काल्पनिकत्वम्, अविगानेन सर्वसहृदयानां रसास्वादोद्भूतेः । अतः केचिदभिधालक्षणागौणीभ्यो 977वाद्यन्तरपरिकल्पितशक्तिभ्यो व्यतिरिक्तं व्यञ्जकत्वलक्षणं शब्दव्यापारं रसालंकारवस्तुविषयमिच्छन्ति । तथा हि—विभावानुभावव्यभिचारिमुखेन रसादिप्रतिपत्तिरुपजायमाना कथमिव वाच्या स्यात् ? तथा हि—
विवृण्वती शैलसुतापि भावमङ्गैः स्फुटद्बालकदम्बकल्पैः ।
साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ॥978
इत्यादावनुरागजन्यावस्थाविशेषानुभाववद्गिरिजालक्षणविभावोपवर्णनादेवाशब्दापि979 शृङ्गारप्रतीतिरुदेति । रसान्तरेष्वप्ययमेव न्यायः । न केवलं रसेष्वेव यावद्वस्तुमात्रेऽपि । यथा—206
भम धम्मिअ वीसद्धं सो सुणओ अज्ज मारिओ तेण ।
गोलाणइकच्छकुडुंगवासिणा दरिअसीहेण ॥980
इत्यादौ निषेधप्रतिपत्तिरशब्दापि व्यञ्जकशक्तिमूलैव । तथालंकारेष्वपि—
लावण्यकान्तिपरिपूरितदिङ्‏मुखेऽस्मिन् स्मेरेऽधुना तव मुखे तरलायताक्षि ।
क्षोभं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधिः ॥
इत्यादिषु चन्द्रतुल्यं तन्वीवदनारविन्दमित्युपमाद्यलंकारप्रतिपत्तिर्व्यञ्जकत्वनिबन्धनीति981 । न चासावर्थापत्तिजन्या, 982अनुपपद्यमानार्थाभावात् । नापि वाक्यार्थत्वम्, व्यङ्ग्यस्य तृतीयकक्ष्याविषयत्वात् । तथा हि—भ्रम धार्मिक इत्यादौ 983 पदार्थविषयाभिधालक्षणप्रथमकक्ष्यातिक्रान्तः क्रियाकारकसंसर्गात्मकविधिविषयवाक्यार्थद्वितीयकक्ष्यातिक्रान्तस्तृतीयकक्ष्याविपरिवर्ती निषेधात्मा व्यङ्ग्यलक्षणोऽर्थो व्यञ्जकशक्त्यधीनः स्फुटमेवावभासते । अतो नासौ वाक्यार्थः । ननु च तृतीयकक्ष्याविषयत्वमश्रूयमाणपदार्थतात्पर्येषु विषं भुङ्‏क्ष्व इत्यादिवाक्येषु निषेधार्थविषयेषु प्रतीयत एव वाक्यार्थस्य । न चात्र व्यञ्जकत्ववादिनापि वाक्यार्थत्वं नेष्यते, तात्पर्यादन्यत्वाद् ध्वनेः । 984न—तत्र स्वार्थस्य द्वितीयकक्ष्यायामविश्रान्तस्य तृतीयकक्ष्याऽभावात् । सैव निषेधकक्ष्या । तत्र द्वितीयकक्ष्याविधौ क्रियाकारकसंसर्गानुपपत्तेः । प्रकरणात् पितरि वक्तरि पुत्रस्य विषभक्षणनियोगाभावात् । रसवद्वाक्येषु च विभावप्रतिपत्तिलक्षणद्वितीयकक्ष्यायां रसानवगमात्985 । तदुक्तम्—
अप्रतिष्ठमविश्रान्तं स्वार्थे यत्परतामिदम् ।
वाक्यं विगाहते तत्र न्याय्या तत्परतास्य सा ॥
यत्र तु स्वार्थविश्रान्तं प्रतिष्ठां 986तावता गतम् ।
तत् प्रसर्पति तत्र स्यात् सर्वत्र ध्वनिना स्थितिः ॥
207 इति । एवं सर्वत्र रसानां व्यङ्ग्यत्वमेव । वस्त्वलंकारयोस्तु क्वचिद् वाच्यत्वं क्वचिद् व्यङ्ग्यत्वम् । तत्रापि यत्र व्यङ्ग्यस्य प्राधान्येन प्रतिपत्तिस्तत्रैव ध्वनिः, अन्यत्र गुणीभूतव्यङ्ग्यत्वम् । तदुक्तम्—
यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ ।
व्यङ्क्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ॥987
प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः ।
काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिः ॥988

यथा—उपोढरागेण इत्यादि । तस्य च ध्वनेर्विवक्षितवाच्याविवक्षितवाच्यत्वेन द्वैविध्यम् । अविवक्षितवाच्योऽप्यत्यन्ततिरस्कृतस्वार्थोऽर्थान्तरसंक्रमितवाच्यश्चेति द्विधा । विवक्षितवाच्यश्चासंलक्षितक्रमः 989क्रमद्योत्यश्चेति द्विविधः । तत्र रसादीनामसंलक्ष्यक्रमध्वनित्वं प्राधान्यप्रतीतौ सत्याम् । अङ्गत्वेन प्रतीतौ रसवदलंकार इति ।

स्वशब्दैरिति । रत्यादिशब्दैरित्यर्थः । तेषां तत्परिपोषस्य वेति । रत्यादिस्थायिभावानां तत्परिपोषस्य शृङ्गारादेर्वेत्यर्थः । नन्वश्रवणमनियतम् । तत्राह यत्रापि चेति । ननु विभावादिप्रतिपादकशब्दाः श्रुता रत्यादीन् तत्परिपोषं वा लक्षयिष्यन्ति । तत्राह नापीति । हेतुमाह तत्सामान्याभिधायिन इति । गोत्ववत् सामान्याभिधायी शब्दः तस्य सामान्यस्य अर्थक्रियाऽयोगादर्थक्रियाक्षमां व्यक्तिं लक्षयतीति युक्तम् । इह तु स्थायिनां रसानां वा 990लक्षणामूलस्य सामान्यस्याभिधायको न कश्चिच्छब्दोऽस्ति यतो लक्षणा स्यादिति । तत्र हीति । सामान्याभिधायिनोऽपि शब्दस्यार्थक्रियार्थिभिः प्रयुक्तस्य तस्मिन् सामान्ये अर्थक्रियाऽयोगात् सर्वत्र तत्क्षमा व्यक्तिरेव स्वार्थो भवति । तेन ‘गङ्गायां घोषः’ इत्यत्र गङ्गाशब्दार्थे स्रोतसि घोषप्रतिवासासंभवेन गङ्गाशब्दः तत्प्रतिवासयोग्यं तटं लक्षयति ।208 इह तु तथाविधा लक्षितलक्षणा न 991संभवतीति । स्वार्थे स्खलद्गतिरिति । स्वार्थतामापन्ने स्रोतसि घोषप्रतिवासासंभवेन तमुल्लङ्घ्य गच्छन्नित्यर्थः । स्वार्थाविनाभूतेति ।992 स्वार्थेन स्रोतसा यस्य न विनाभावस्तादृशं तटम् । न हि गङ्गा तटविधुरा संभवतीत्यर्थः । इह तु993 नायकादिशब्दानां लक्षणामूलभूतं स्वार्थे स्खलनं न संभवति । स्वार्थस्यैवार्थक्रियाक्षमत्वेन तदुल्लङ्घनाभावादिति । किं च सर्वत्र लक्षणायां मुख्यार्थबाधस्तद्योगश्च निमित्तम् । निरूढलक्षणायां994 तु न प्रयोजनेन भवितव्यम् । अन्यत्र तु तदवश्यंभावः । इह तु न तन्निमित्तमस्ति । न च प्रयोजनम् । तेन कथं मुख्ये विद्यमानेऽप्युपचरितमर्थमुपाददीरन्नित्याह को वेति । सिंहो माणवक इत्यादिवदिति । ‘सिंहो माणवकः’ इति हि समभिव्याहारे माणवकादावसंभवात् स्वार्थस्य, सिंहशब्दः स्वार्थाविनाभूतं तद्गतं शौर्यं लक्षयित्वापि तत्राप्यनुपपन्नस्तथाविधगुणयुक्तं देवदत्तं प्रत्याययति । तत्र देवदत्तादिपदैः समभिव्याहारानुपपत्तिः शौर्यादिगुणसंबन्धश्च निमित्तम् । विशिष्टशौर्यप्रतिपत्तिः प्रयोजनम् । न हि ‘सिंहवद् देवदत्तः शूरः’ इत्युक्ते शूरतमेन सिंहेन तादात्म्यप्रतिपत्ताविव देवदत्तस्य शौर्यं प्रतीयते । ततः सर्वत्रोपचारवृत्तौ शब्दस्य निमित्तेन प्रयोजनेन च भवितव्यमित्यर्थः । यत एव निमित्तप्रयोजनादिर्नास्ति, अत एव नायकादिशब्दानां गौणी वृत्तिरपि न संभवतीत्याह अत एवेति । यद्यप्येतत् पदगामि वृत्तित्रयमपि995 न संभवति, तथापि वाक्यमेव वाक्यार्थीभूतं रसं प्रत्याययिष्यति । तत्राह यदि चेति । वाक्याद् वाक्यार्थप्रतिपत्तौ न वृत्त्यन्तरमस्ति । किं तु वाक्यगतेषु पदेषु पदार्थप्रतिपादनेन पर्यवसितेषु प्रतिपन्नाः पदार्थाः 996परस्परमाकाङ्क्षादित्रयमूलमन्वयमवाप्य वाक्यार्थत्वेन प्रतिपद्यन्ते । पदार्थप्रतिपादनस्य शब्दमूलकत्वाच्च वाक्यार्थः शाब्दो भवति । तेन रसस्य वाक्यार्थत्वे पदपदार्थव्युत्पत्तिमात्रयुक्तचेतसां पुंसां वाक्याद् रसप्रतीतिर्भवेत् । न चैवमित्यर्थः । यद्यपि रसस्य वाक्यार्थत्वं स्थापयिष्यते, तथापि वाक्यस्योद्देश्यतया रसो वाक्यार्थः । वस्तुतस्तु विभाववाक्यानां त एव वाक्यार्थाः तत्प्रतिपत्त्यवान्तरव्यापारतया रसप्रतिपत्तेः तं प्रति पदार्थस्थानीया997 उच्यन्त इति । तर्हि रसप्रतिपत्तिः सर्वथैवा209 संभवमूला998 काल्पनिकी भवतु । तत्राह न चेति । यतो 999वाक्यान्तरपरिकल्पितपदशक्तिभ्यो मुख्यादिभ्यः सर्वथैव न रसप्रतिपत्तिर्भवति, अतस्ताभ्यः शक्तिभ्यो व्यतिरिक्तां वाक्यशक्तिं काव्येषु व्यञ्जकत्वाभिधानां ध्वन्यपरपर्यायां रसालंकारवस्तुविषयां केचिदिच्छन्तीत्याह अत इति । तामुपपादयति तथा हीति । रसादिप्रतिपत्तेरभिधादिमूलत्वं व्यवच्छिनत्ति विभावेति । न हि पदार्थं बुध्यमानानां सर्वेषां विभावादिप्रतिपत्त्यवश्यंभाव इत्यर्थः ।1000 अनुरागजन्यावस्थाविशेषानुभाववद्गिरिजालक्षणविभावोपवर्णनादेवेति । अविद्यमानेष्वपि रत्यादिपदेष्वनुरागजन्यो योऽवस्थाविशेषः तद्वान् गिरिजालक्षणो यो विभावः तन्मात्रेण रसप्रतिपत्तिरुपजायमाना न हि वाचकमूलेति युक्तमित्यर्थः । एवं रसे ध्वनिमुपपाद्य वस्तुन्यप्युपपादयति न केवलमिति । भम धम्मिअ ।

भ्रम धार्मिक विस्रब्धं स शुनकोऽद्य मारितस्तेन ।
गोदावरीकच्छकुडुङ्गवासिना दृप्तसिंहेन ॥

निषेधप्रतिपत्तिरिति । यद्यपि भ्रम धार्मिकेति वाक्यं स्वरूपतो विधावेव पर्यवस्यति । तथापि तस्य तात्पर्यार्थः ‘तत्र मा गाः’ इत्येव । न च तत्प्रतिपादकः शब्दोऽत्र विद्यते । ततः कथमियं प्रतिपत्तिर्वाचकत्वमूला स्यादित्यर्थः । एवं वस्तुप्रतिपत्तेंर्व्यञ्जकशक्तिमूलत्वमुक्त्वा1001 संप्रत्यलंकारप्रतिपत्तेरप्याह तथालंकारेष्वपीति । अत्रोपमा व्यज्यमानोऽलंकार1002 इत्याह इत्यादिष्विति । ननु चेयमर्थापत्तिमूला प्रतीतिः, न शक्त्यन्तरमूला यतो वाक्यस्य व्यञ्जकत्वनामा शक्तिः कल्पयितव्या भवेत् । तत्राह न चेति । हेतुमाह अनुपपद्यमानेति । यत्र हि दृष्टेनानुपपद्यमानेन केनचिदर्थेन स्वोपपादकतया किंचिदर्थान्तरमाक्षिप्यते सा खल्वर्थापत्तिः । अत्र तु वाक्यमेव 1003किमप्यर्थान्तरं ध्वनति । न तत्प्रतीतोऽर्थः कश्चित् । न त्वनुपपद्यमानेनार्थेनाक्षिप्तोऽर्थः कश्चित् । अतः कथमियं प्रतीतिरर्थापत्तिर्भवेदिति । तर्हि स1004 वाक्यस्यैव उद्देश्यतयार्थो भविष्यति । तत्राह नापीति । हेतुमाह व्यङ्गयस्येति । व्यञ्जनीयस्यार्थस्य पदार्थकक्ष्यां तत्संसर्गकक्ष्यां च विहाय210 कक्ष्यान्तरविषयत्वादित्यर्थः । तस्य तृतीयकक्ष्याविषयत्वमेवोपपादयति तथा हीत्यादिना ।

ननु तृतीयकक्ष्याविषयो ध्वन्योऽर्थो न संभवति । कुतः । अश्रूयमाणे ‘मास्य गृहे भुक्थाः’ इत्यर्थे तात्पर्यं येषां तेषां ‘विषं भुङ्क्ष्व’ इत्यादिवाक्यानां या तव तृतीयकक्ष्यात्वेनाभिमता सैव तात्पर्यार्थः प्रतीयते । न चात्र विषभोजनादिवाक्ये निषेधार्थस्य तात्पर्यविषयत्वं व्यञ्जकत्ववादिनापि नेष्यते । अत उभयवादिसिद्धत्वाद् विषभोजनादिवाक्ये तावन्निषेधस्यैव वाक्यार्थत्वं, न विधेः । तद्वद् वाक्यान्तरेष्वपि व्यङ्गयत्वेनाभिमतस्यैवार्थस्य वाक्यार्थत्वमित्यभिप्रायेणाह ननु चेति ।1005 सिद्धायां हि द्वितीयकक्ष्यायां तत्र वाक्यस्य विश्रान्तौ पर्यवसिता द्वितीयकक्ष्येति व्यङ्ग्यार्थस्य तृतीयकक्ष्याविषयत्वं भवति । अविश्रान्तौ तु वाक्यस्य सैव निषेधकक्ष्येत्याह स्वार्थेति ।1006 द्वितीयकक्ष्यायां विश्रान्तौ सत्यां हि तीयकक्ष्या भवति । अविश्रान्तौ तु सा द्वितीयकक्ष्यैव या तृतीयकक्ष्या तवाभिमता भवतीत्यर्थः । द्वितीयकक्ष्यायां विधौ कथं क्रियाकारकसंसर्गानुपपत्तिः । तत्राह प्रकरणादिति । तर्हि रसवद्वाक्येष्वपि द्वितीयकक्ष्यायामेव रसावगमोऽस्तु । तत्राह रसवद्वाक्येष्विति । अप्रतिष्ठमिति । दं वाक्यं स्वार्थे संसर्गकक्ष्यायामविश्रान्तम्, अत एवाप्रतिष्ठं यत्परतां विगाहते तत्रैव तत्परता न्याय्येति । यत्र त्विति । यत्र तु स्वार्थे क्रियाकारकसंसर्गकक्ष्यायां विश्रान्तं तावता1007 प्रतिष्ठां गतं तद् वाक्यमुपर्यपि प्रसर्पति तत्र सर्वत्र ध्वनिरेवेति स्थितिरिति । तत्र च व्यङ्ग्ये रसानां सर्वदा व्यङ्ग्यत्वम् । वस्त्वलंकारयोस्तु तत् क्वाचित्कमित्याह तत्र चेति1008 । तयोः क्व ध्वनित्वं1009 भवति । क्व वा न भवति । तत्राह तत्रापीति । व्यङ्ग्यत्वस्य क्वाचित्कत्वेऽपीत्यर्थः । यत्रार्थ इति । यत्रार्थः शब्दो वा तादृशमर्थं स्वं चार्थं चोपसर्जनीकृत्य व्यङ्क्तः तत् काव्यं ध्वनिरिति सूरिभिः कथितमिति । यत्र तु अन्यवाक्यार्थे प्रधाने गुणीभवन्ति रसादयः तत्र ते रसादयोऽलंकारा एव भवन्ति । न तु व्यङ्ग्या इति । एवंविधस्य ध्वनेः वाच्यार्थस्य विवक्षितत्वाविवक्षितत्वाभ्यां द्वैविध्यं भवति । तयोरविवक्षितवाच्योऽपि ध्वनिः अत्यन्ततिरस्कृतवाच्यार्थत्वेन,211 तदभावेऽप्यर्थान्तरसंक्रमितवाच्यार्थत्वेन च द्विविधो भवति । अन्योऽपि विवक्षितवाच्यश्च द्विविधो भवति लक्ष्यक्रमोऽलक्ष्यक्रमश्चेति । तत्र विभागे रसादीनां प्राधान्येन प्रतिपत्तौ सत्यामसंलक्षितक्रमत्वम् । अङ्गत्वेन प्रतिपत्तौ सत्यां रसवन्नामालंकार इत्याह तस्य चेत्यादिना ।

  1. N.S.P. sāmānyābhidhāyinas tu lakṣakasya.

  2. A.T.A. nāpi lakṣyalakṣaṇayā.

  3. The expression uktaṃ ca, and the kārikā kriyāsamanvayāyogāt, etc. the existence of which is confirmed by Bh. Nṛ.’s interpretation are missing in the N.S.P., and perhaps in other editions too. See the Laghuṭīkā and Note 210 thereon.

  4. N.S.P. reads svārthaṃ vinā bhūtārthopalakṣitam, etc.

  5. N.S.P. vācyāntaraparikalpita-, etc.

  6. कुमार० ३ । ६८
  7. A.T.A. aśābdy api instead of aśabdāpi.

  8. गाथा० २ । ७५
  9. A.T.A. vyañjananighnaiva in place of vyañjakatvanibandhanī.

  10. N.S.P. -arthāpekṣābhāvāt.

  11. N.S.P. reads here a very long compound beginning with padārthaviṣaya- and ending tṛtīyakakṣākrānto.

  12. Before tatra A.T.A. gives separately na and a dash.

  13. A.T.A. reads rasānāṃ vyaṅgyatvam eva after rasānavagamāt.

  14. N.S.P. tāvadāgatam.

  15. ध्वन्या० १ । १३
  16. ध्वन्या० २ । ५
  17. A.T.A. saṃlakṣitakramaś ceti instead of kramadyotyaś ca.

  18. See Note 282 to Daśarūpāvaloka. I have note been able to find out the source of kārikā-kriyāsamanvayāyogāt, etc. quoted by Dhanika in this context. This kārikā is not found in N.S.P. and other editions too (?), but it is clearly given in A.T.A. and its existence is confirmed by Bh.Nṛ.’s interpretation.

  19. After explaining the view that lakṣaṇā could not serve the purpose here, Dhanika introduces the discussion about the next part of the argument (of others) as nāpi lakṣitalakṣaṇayā tatpratipattiḥ. Bh.Nṛ. also uses the expression iha tu tathāvidhā lakṣitalakṣaṇā na saṃbhavatīti. This expression lakṣitalakṣaṇā is used in the sense of what also seems to be known as lakṣaṇalakṣaṇā mentioned by Mammaṭa (i.e. jahallakṣaṇā) connected with the example gaṅgāyāṃ ghoṣaḥ. This has nothing to do with the paraṃparā lakṣaṇā which is also termed as lakṣitalakṣaṇā by later Naiyāyika-s, which is connected with the example dvirepha. Abhinavagupta’s remarks in the Locana: tenāyaṃ lakṣaṇalakṣaṇāyā na viṣayaḥ (on I.20, N.S.P. 1891, page 54), and again tena yat kenacit lakṣitalakṣaṇeti nāma kṛtam tad vyasanamātram (ibid. on I.4, page 18), using both the expressions lakṣitalakṣaṇā and lakṣaṇalakṣaṇā seem to take them as synonymous, being connected (in both the places) with the examples like gaṅgāyāṃ ghoṣaḥ. The kārikā running as kriyāsamanvayāyogāt, etc. which is cited by Dhanika and commented on by Bh.Nṛ. is in connection with the discussion about this lakṣitalakṣaṇā.

  20. From the pratīka and comments by Bh.Nṛ. it would appear that the reading in the Avaloka here should be svārthāvinābhūtaṃ taṭaṃ (lakṣayati or upalakṣayati). A.T.A. (of Avaloka) reads svārthā- vinābhūtalakṣaṇaṃ taṭam upalakṣayati.

  21. T.MS. reads iha tu aśrutānāṃ nāyakādiśabdānām, whereas M.G.T. and Tri.MS. read iha tu śrutānām. Gr.MS. reads simply iha tu nāyakādiśabdānām.

  22. Tri.MS. reads nirūḍhalakṣaṇāyāṃ tu. T.MS. and Gr.MS. read as tadyogaś ca nimittam iti rūḍhalakṣaṇāyāṃ tu, etc. M.G.T. gives it as rūḍhilakṣaṇāyāṃ tu.

  23. About the vṛttitraya, Bh.Nṛ. explains abhidhā, lakṣaṇā, and gauṇī as the three vṛttis, as is also noted by Dhanika himself ataḥ kecid abhidhālakṣaṇāgauṇībhyaḥ, etc.

  24. For information on the abhihitānvayavāda of the Bhāṭṭa-s, see K. K. Raja’s Indian Theories of Meaning (Adyar Library Series 91, 1963).

  25. See the Avaloka on I.9 and Bh.Nṛ.’s comments thereon.

  26. T.MS. reads asaṃbhavamūlā, and M.G.T. as anusaṃbhavamūlā.

  27. vākyāntara- seems to stand for kāvyavākyād itarad vākyam. A.T.A. (of Avaloka) reads vādyantara-, etc. Bh.Nṛ’s comment however shows vākyāntara-, etc. See also Note 284 to Daśarūpāvaloka.

  28. A.T.A. gives tathā hi instead of yathā Kumārasaṃbhave before the verse vivṛṇvatī, etc.

  29. Only M.G.T. reads udghāṭya instead of uktvā.

  30. Others seem to take this verse as an instance of rūpakadhvani. Ānandavardhana, the author of the verse himself, says rūpakadhvanir iti vyapadeśo, etc. in connection with this verse. Hemacandra in his commentary on the Kavyānuśāsana says similarly.

  31. The text is not very clear here. M.G.T. is corrupt. Gr.MS. reads vākyam evamimapy arthāntaradhvanīti tatpratīto ’rthaḥ kaścit. Tri.MS. reads atra tu vākyam eva kim apy arthāntaraṃ dhvanati na tena tatpratīto ’rthaḥ kaścit. T.MS. seems to read atra tu vākyam eva kim apy arthāntara iti neti na tatpratīto ’rthaḥ kaścit. atha, etc.

  32. sa is found only in M.G.T. eva is missing in T.MS. and Gr.MS.

  33. All MSS. seem to read na ceti. But A.T.A. and the printed editions give nanu ca. So I preferred nanu ceti.

  34. All MSS. are corrupt here. Some read mere svārthe. And Bh.Nṛ.’s interpretation shows that the reading tāvad āgatam given in the previous editions is not correct. tāvatā gatam is the correct reading.

  35. All MSS. are corrupt here. Some read mere svārthe. And Bh.Nṛ.’s interpretation shows that the reading tāvad āgatam given in the previous editions is not correct. tāvatā gatam is the correct reading.

  36. Thus according to Bh.Nṛ. tara ca should be the reading in place of evaṃ sarvatra found in print as well as in MSS.

  37. One MS. gives as kva vyaṅgyatvaṃ bhavati, another as kvāpy aṅgatvam, and the third is corrupt.