223 यदि चेति । 1064 करुणैकरसानामिति वीररसाङ्गित्वेऽपि करुणप्राचुर्येणोक्तम् । अङ्गी 1065तु वीर एवेति ।

ननु च शान्तरसस्यानभिनेयत्वाद् यद्यपि नाट्येऽनुप्रवेशो नास्ति तथापि सूक्ष्मातीतादिवस्तूनां सर्वेषामपि शब्दप्रतिपाद्यताया विद्यमानत्वात् काव्यविषयत्वं न निवार्यते । अतस्तदुच्यते—1066पुष्टिर्नाट्येषु नैतस्येति । अभिनेयापेक्षया चावधारणनष्टाविति ।

शमप्रकर्षोऽनिर्वाच्यो मुदितादेस्तदात्मता ॥ ४५ ॥

शान्तो हि यदि तावत् अभिनेये न रसः किं नस्ततो गतम् ?1067 स च यदि—

न तत्र दुःखं न सुखं न चिन्ता न द्वेषरागौ न च काचिदिच्छा ।
रसस्तु शान्तः कथितो मुनीन्द्रैः सर्वेषु भावेषु समप्रमाणः1068 ॥
इत्येवंलक्षणः, तदा तस्य मोक्षावस्थायामेवात्मस्वरूपापत्तिलक्षणायां प्रादुर्भावः । तस्य च स्वरूपेणानिर्वचनीयता । तथा हि—श्रुतिरपि तं स एष नेति नेति1069 इत्यन्यापोहरूपेणाह । न च तथाभूतस्य शान्तरसस्य अभिनेये तद्धृदयाः1070 स्वादयितारः सन्ति । अथापि तदुपायभूतः शमो यदि 1071मुदितामैत्रीकरुणादिलक्षणः विवक्षितस्तर्हि तस्य रूपकेषु न पोषः । काव्ये संभावितस्य तस्य च स्वादे मनसो विकासविस्तारक्षोभविक्षेपरूपतैवेति तदुक्त्यैव काव्यसंबन्धिशान्तस्वादो निरूपितः ।

अधिकस्य शान्तस्य सद्भावादवधारणमनुपपन्नमिति पुनरपि चोदयति ननु चेति । यद्यपि शान्तो नाम कश्चिद् रसो विद्यते । तथापि श्राव्यबन्धगोचर एव सः । न तु दृश्यबन्धगोचरः । तस्यानभिनेयत्वात् । तदपेक्षया चाष्टावित्यवधारणमित्यभिप्रायेणाह अतस्तदुच्यत इत्यादि । काव्ये

  1. This is the reading in A.T.A. also.

  2. Thus Bh. Nṛ. says clearly that vīra is the aṅgirasa in the Rāmāyaṇa. Bahurūpamiśra also says under vīrarasa thus ayaṃ vīraḥ śrīmadrāmāyaṇe tadanubandheṣu prabandheṣu uttararāmacarivarjeṣu vīracaritādiṣūdāhartavyaḥ. But Ānandavardhana in his Dhvanyāloka (under IV. 5) and Viśvanātha in his Sāhityadarpaṇa (III.5) say that karuṇa is the pradhānarasa in the Rāmāyaṇa.

  3. The portion within square brackets is my surmise on the basis of Bh.Nṛ’s comments.

  4. See Laghuṭīkā here, and Note 258 thereon.

  5. N.S.P. śamapradhānaḥ.

  6. बृहदारण्यकोपनिषदि, ३।९।२६
  7. N.S.P. sahṛdayāḥ in place of taddhṛdayāḥ.

  8. See Patañjali’s Yogasūtra, maitrīkaruṇāmuditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ bhāvanātaś cittaprasādanam (I. 33). atha is the reading in the MSS. of Avaloka, but Bh.Nṛ’s pratīka shows athāpi. The significance of this sentence of the portion of the Avaloka and the L.T. is not very clear to me. On the basis of the clear statements of Bh.Nṛ., I have surmised some linking words and expressions (which I have given in square brackets) in the Avaloka and L.T. to have some consistency in the context. There seems to have been some difficulty in understanding the portion even in the past, and consequently two schools of interpretation seem to have existed. One understood Dhanika as rejecting the śāntarasa even in śravyakāvya, though not expressly but in an implied manner. The second understood Dhanika as rejecting the śānta only in the abhineya, and giving approval to its possibility in a śravyakāvya (sarvathā nāṭakādau abhinayātmani śamasya sthāyitvaṃ neṣyate). Bh.Nṛ. seems to belong to the second school of thought.