229 तद्विभागस्तु—
अयोगविप्रयोगविशेषत्वाद् विप्रलम्भस्य तत्सामान्याभिधायित्वे विप्रलम्भशब्द उपचरितवृत्तिर्मा भूदिति न प्रयुक्तः । तथा हि—1091उक्त्वा तद्व्यतिक्रमे नायिकान्तरानुसरणे च विप्रलम्भशब्दस्य मुख्यः प्रयोगः । वञ्चनार्थत्वात् तस्य ।
अयोगो विप्रयोगः संभोग इति त्रेधा शृङ्गारविभागकथनम् । अत्र हेतुमाह अयोगविप्रयोगविशेषत्वाद् विप्रलम्भस्येति । अयोगविप्रयोगयोर्विशेषो हि विप्रलम्भ इत्यर्थः । तर्ह्यत्र विप्रलम्भशब्द एव प्रयुज्यतामित्याशङ्क्याह तदिति । वञ्चनार्थो विप्रलम्भशब्दः । एवं चायोगे पारतन्त्र्यादिना वक्ष्यमाणे वञ्चनाभावात्, तथैवाबुद्धिपूर्वकप्रवासविप्रयोगे च वञ्चनाभावात् सर्वत्रायोगे विप्रयोगे च प्रयुज्यमानो विप्रलम्भशब्दो न संगतः स्यात् । इत्थम् उभयगतस्य विशेषस्याभिधायको विप्रलम्भशब्दः । अतस्तत्सामान्याभिधायी विप्रलम्भशब्द इत्युच्यमाने स शब्दे मुख्यतामपहायोपचरितवृत्तिः स्यात् । तेनायोगो विप्रलम्भ इति न युक्त इत्यर्थः । तस्य तद्विशेषाभिधायित्वमेव दर्शयति उक्त्वेति । तद्व्यतिक्रम इति । तस्य वचनस्य व्यतिक्रमे1092 ततो नायिकान्तरानुसरणे चेति । हेतुमाह वञ्चनार्थत्वादिति । वञ्चनं हि विप्रलम्भः । तस्य वञ्चनस्य सर्वेष्वयोगादिष्वननुवृत्तत्वादित्यर्थः ।
-
N.S.P. dattvā saṃketam aprāpte ’vadhyatikrame sādhyena. A.T.A. śāṭhyena in place of sādhyena. of the above line. Bh.Nṛ. has a different reading. See the Introduction.
↩ -
A.T.A. gives the following reading head:
dattvā saṃketam aprāpte priye tadvyatikrameṇa śāṭhyena nāyikāntarānusaraṇena ca vipralaṃbhaśabdasya mukhyaḥ prayogaḥ. vañcanārthatvāt tasya. Bh. Nṛ’s pratīka is uktvā instead of dattvā, and vyatikrame and anusaraṇe are in locative instead of instrumental. śāṭhyena or its synonym is not found in Bh. Nṛ’s commentary. After vyatikrame śaṅkayā is found in M.G.T. and Tri.MS. It may perhaps be aśaṅkayā ? See the Introduction.
↩