हेतुकार्यात्मनोः सिद्धिस्तयोः संव्यवहारतः ॥ ३ ॥
तयोर्विभावानुभावयोर्लौकिकरसं प्रति हेतुकार्यभूतयोः संव्यवहारादेव सिद्धत्वान्न पृथग्लक्षणमुपयुज्यते । तदुक्तम्—विभावानुभावौ लोकसंसिद्धौ172 लोकयात्रानुगामिनौ लोकस्वभावानुगतत्वाच्च न पृथग्लक्षणमुच्यते । इति818 ।
ननु विभावानुभावयोः स्वरूपमुक्तम् । ज्ञायमानतया रसपोषकारित्वं हि सर्वेषां समानम् । व्यावृत्तं तु लक्षणं किं नोच्यते । तत्राह हेत्विति ।
- ना॰ शा॰ [GOS. vol. I] पृ॰ ३४८↩