तत्र नायिकां प्रति नियमः—

1136स्वाधीनपतिकोत्कात्ववाससज्जाभिसारणैः ।
रम्यं सानुभवेत् तत्र हृष्टावस्थाचतुष्टयम् ॥ ६८ ॥
प्रणयायोगयोरुक्ता प्रवासे प्रोषितप्रिया ।
कलहान्तरितेर्ष्यायां विप्रलब्धा च खण्डिता ॥ ६९ ॥

एवं व्यवस्थितेषु विप्रलम्भशृङ्गारभेदेषु नायिका नियम्यन्त इत्याह तत्र नायिकां प्रतिति । प्रणयायोगयोरिति । प्रणयमानेऽयोगशृङ्गारे च 1137स्वाधीनपतिका वासकसज्जा विरहोत्कण्ठिताभिसारिका च यथायोगं241 नायिका भवेयुः । ईर्ष्यामाने कलहान्तरिता खण्डिता विप्रलब्धा च भवेयुः । प्रवासे तु प्रोषितप्रियेति ।

  1. See the Introduction and the Laghuṭīkā.

  2. See the Introduction for a discussion related to this portion. (The missing kārikā.)