अथ संभोगः—
यथोत्तररामचरिते— किमपि किमपि मन्दं मन्दमासत्तियोगादविरलितकपोलं जल्पतोरक्रमेण । सपुलकपरिरम्भव्यापृतैकैकदोप्णोरविदितगतयामा रात्रिरेव व्यरंसीत् ॥1138
अथवा— प्रिये, किमेतत्— विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः । तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ॥1139
प्रिये, किमेतत्—
यथा च ममैव— लावण्यामृतवर्षिणि प्रतिदिशं कृष्णागरुश्यामले वर्षाणामिव ते पयोधरभरे तन्वङ्गि दूरोन्नते । 1140नासावंशमनोज्ञकेतकतरुर्भ्रूपत्रगर्भोल्लस- त्पुष्पश्रीस्तिलकः सहेलमलकैर्भृङ्गैरिवापीयते ॥
N.S.P. -ketakatanur-, etc.
Generating a file for download may take up to a few minutes. Please wait.
This dialog should close automatically when the download has completed.