अथ हास्यः—

विकृताकृतिवाग्वेषैरात्मनोऽथ परस्य वा ।
हासः स्यात् परिपोषोऽस्य हास्यस्त्रिप्रकृतिः स्मृतः ॥ ७६ ॥

आत्मस्थान् विकृतवेषभाषादीन् परस्थान् वा विभावानवलम्बमानो हासः, तत्परिपोषात्मा हास्यो रसो द्व्यधिष्ठानो भवति । प्रतिस्वं1158 चोत्तममध्यमाधमप्रकृतिभेदात् षड्विधः ।

विकृताकृतिवाग्वेषैरिति । आत्मनो वा परस्य वा विकृताभिर्वाग्भिः विकृतैर्वेषैश्च जायमानाद्धासादुद्भूतस्त्रिप्रकृतिर्हास्यो रसः स्मृत इत्यर्थः । आत्मपरभेदेन द्विविधकारणजन्मनो हासाज्जायमानतया द्विविधो हास्योऽपि प्रत्येकमुत्तममध्यमाधमभेदेन त्रिविध इत्याह प्रतिस्वं चेति ।

  1. N.S.P. sa cottama-, etc.