अथाद्भुतः—

अतिलोकैः पदार्थैः स्याद् विस्मयात्मा रसोऽद्भुतः ॥ ७९ ॥
कर्मास्य साधुवादाश्रुवेपथुस्वेदगद्गदाः ।
248 हर्षावेगधृतिप्राया भवन्ति व्यभिचारिणाः ॥ ८० ॥

लोकसीमातिवर्तिपदार्थवर्णनादिविभावितः साधुवादाद्यनुभावपरिपुष्टो विस्मयस्थायिभावो हर्षावेगादिव्यभिचारिभावो रसोऽद्भुतः । यथा—

दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्धत- ष्टङ्कारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः ।
द्राक्पर्याप्तकपालसंपुटमिलद्ब्रह्माण्डभाण्डोदर- भ्राम्यत्पिण्डितचण्डिमा कथमसौ नाद्यापि विश्राम्यति ॥1161
इत्यादि ।

अतिलोकैरिति । अतिलोकपदार्थदर्शनादिजन्मना विस्मयेनोद्भूतः साधुवादादिभिरनुभाविती हर्षावेगादिभिर्व्यभिचारिभिः प्रकृष्टः अद्भुतात्मा रसो भवतीत्यर्थः ।

  1. वी॰ च॰ १ । ५४