173 परगतदुःखहर्षादिभावनायामत्यन्तानुकूलान्तःकरणत्वं=सत्त्वम् । यदाह—सत्त्वं नाम मनःप्रभवम् । तच्च समाहितमनस्त्वादुत्पद्यते ।821 । एतदेवास्य सत्त्वं यत् दुःखितेन प्रहर्षितेन वाश्रुरोमाञ्चादयो निर्वर्त्यन्ते । तेन सत्त्वेन निर्वृत्ताः सात्त्विकाः । तद्भावभावनं च भावः ।822 तत उत्पद्यमानत्वादश्रुप्रभृतयोऽपि भावाः, भावसंसूचनात्मकविकाररूपत्वाच्चानुभावा इति द्वैरूप्यमेतेषाम् ।
पृथगिति । उक्तेभ्यो भावेभ्यः पृथग् अन्ये सात्त्विकाः सत्त्वजनिताः अनुभावत्वेऽपि भावा भवन्ति । अनुभावाश्च भावाश्च भवन्तीति823 यावत् । कथं तेषां भावत्वमित्यत्राह 824सत्त्वादेवेति । कथं तावता तेषां भावत्वमित्यत्राह तच्चेति । तत=सत्त्वं च तद्भावस्य=सामाजिकचेतसो भावनं =वासनं यत इत्यर्थः । तथैव व्याचष्टे परगतेति । अत्यन्तशब्देन रागद्वेषाभ्यामवशीकृतत्वमुच्यते । एवं प्रकृत्यर्थं सत्त्वमुक्त्वा प्रत्ययार्थमाह तेनेति । तथापि तेषां भावत्वस्य किमायातम् । तत्राह तद्भावभावनं चेति825 ।
- ना॰ शा॰ [GOS. vol. I] पृ॰ ३७४↩
-
This is missing in N.S.P.
↩ -
sattvajanitāḥ is missing in Tri.MS., and this and bhāvāś ca are missing in T.MS. and Gr.MS.
↩ -
See Note 203.
↩ -
N.S.P. does not give any reading like tadbhāvabhāvanaṃ ca, which is the pratīka cited by Bh.Nṛ. A.T.A. gives tadbhāvabhāvanaṃ ca bhāvaḥ, which seems to be necessary according to Bh.Nṛ.’s interpretations. The significance seems to be this: sattvasya= tadbhāvabhāvanasya bhāvatvena, sattvena nirvṛtto ’ pi bhāvo bhavati= sattvātmakabhāvavyapadeśyo bhavati. pārthivakapālādinirvṛttaghaṭādeḥ pārthivatvavat.
↩