अथ श्रमः—

श्रमः खेदोऽध्वरत्यादेः स्वेदोऽस्मिन् मर्दनादयः ।

178 अध्वतो यथोत्तररामचरिते—

अलसलुलितमुग्धान्यध्वसंजातखेदा- दशिथिलपरिरम्भैर्दत्तसंवाहनानि ।
परिमृदितमृणालीदुर्बलान्यङ्गकानि त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता ॥835

रतिश्रमो यथा माघे—

प्राप्य मन्मथरसादतिभूमिं दुर्वहस्तनभराः सुरतस्य ।
शश्रमुः श्रमजलार्द्रललाटश्लिष्टकेशमसितायतकेश्यः ॥836
इत्याद्युत्प्रेक्ष्यम् ।

  1. १।२४
  2. १०।८०