संधिसामान्यलक्षणमाह—
150अवान्तरार्थसंबन्धः संधिरेकान्वये सति ॥ २३ ॥
एकेन प्रयोजनेनान्वितानां कथांशानामवान्तरैकप्रयोजनसंबन्धः संधिः ।
यद्यपि रूपकेषु मुखाद्याः पञ्चापि संधयो भवन्ति, तथापि सामान्यत एवेतिवृत्तमात्रगामिनि ज्ञाते हि संधौ संधिविशेषो ज्ञायते । तेन संधिसामान्यलक्षणं संप्रति ब्रूत इत्याह संधिसामान्यलक्षणमाहेति ।
-
N.S.P. antaraikārthasaṃbandhaḥ.
↩