30स्वप्रवृत्तेर्विषयं दर्शयति—

उद्वृत्योद्धृत्य सारं यमखिलनिगमान्नाट्यवेदं विरिञ्चि- श्चक्रे यस्य प्रयोगं मुनिरपि भरतस्ताण्डवं नीलकण्ठः ।
4
शर्वाणी लास्यमस्य प्रतिपदमपरं लक्ष्म कः कर्तुमीष्टे नाट्यानां किंतु किंचित् प्रगुणरचनया लक्षणं संक्षिपामि ॥ ४ ॥

यं नाट्यवेदं वेदेभ्यः सारमादाय ब्रह्मा कृतवान्, यत्संबद्धमभिनयं भरतश्चकार करणाङ्गहारानकरोत्31 हरस्ताण्डवमुद्धतं नृत्तं कृतवान्, लास्यं सुकुमारं नृत्तं पार्वती कृतवती, अस्य32 सामस्त्येन लक्षणं कर्तुं कः शक्तः । तदेकदेशस्य लक्षणं संक्षेपतः क्रियत इत्यर्थः ।

स्वप्रवृत्तेर्विषयं दर्शयतीति । स्वशब्देन श्रोतृप्रवृत्तेः स्वप्रवृत्तिं व्यावर्तयति । 33स्वस्य प्रवृत्तिः प्रकरणनिर्माणम् । तत्प्रयोजनस्य श्रोतृप्रवृत्त्यैव दर्शितत्वात् संप्रति विषयं दर्शयतीत्यर्थः । उद्धृत्योद्धृत्येत्यस्य अयमर्थः—34नाट्यवेदप्रणीतानां सामस्त्येन लक्षणं किं न क्रियत इति मां प्रत्यचोदनीयम् । 35यत्र विरिञ्चादिष्वपि क्वचिदेव कश्चिदेव समर्थः, तदर्थस्य प्रतिपदलक्षणकरणे36 कोऽपरः शक्नुयात् । किंतु तदुक्तानां नाट्यानामेव लक्षणं किंचित् प्रगुणया रचनया संक्षेपेण वदामीति । तथैव व्याचष्टे यं नाट्यवेदमिति । 37आसनस्थानादिरङ्गहारजनकः करणम् । अङ्गहारस्तु अङ्गविक्षेपः ।

  1. N.S.P. svapravṛttiviṣayaṃ.

  2. A.T.A. hārān anekān akarot.

  3. N.S.P. tasya, and the next line as tadekadeśasya tu daśarūpasya saṃkṣepaḥ kriyata ity arthaḥ.

  4. M.G.T. reads yasya pravṛttiḥ.

  5. T.MS. reads nāṭyavedena, whereas the others read as given in the text.

  6. M.G.T. reads yatra viriñcādiṣv api kvacid eva kaścid eva. Tri. MS. reads yatra viriñcādir api, etc. T.MS. reads atra viriñcādir api kvacid eva samarthaḥ. Gr.MS. is corrupt here.

  7. T.MS. reads tadarthasya pratipādakalakṣaṇakaraṇe, whereas the other read as given in the text.

  8. M.G.T. reads āsanasthānādir aṅgādijanakaṃ karaṇam, and Tri. MS. āsanasthānādir aṅgādhijanakam. T.MS. gives the reading as in the text.