अथ प्राप्तिः—

प्राप्तिः सुखागमः ।
23

यथा वेणीसंहारे165

चेटी

166भट्टिणि, परिकुविदो विअ कुमारो लक्खीअदि ।167

इत्युपक्रमे,
भीमः
मथ्नामि कौरवशतं समरे न कोपाद् दुःशासनस्य रुधिरं न पिबाम्युरस्तः ।
संचूर्णयामि गदया न सुयोधनोरू संधिं करोतु भवतां नृपतिः पणेन ॥168
द्रौपदी
श्रुत्वा सहर्षम्

169नाह, अस्सुदपुव्वं खु170 ईदिसं पियवअणं । ता पुणो पुणो भण ।

इत्यनेन भीमक्रोधबीजान्वयेनैव सुखप्राप्त्या द्रौपद्याः प्राप्तिरिति ।

यथा च रत्नावल्याम्—

सागरिका
श्रुत्वा सहर्षं परिवृत्य सस्पृहं पश्यन्ती

171कधं अअं सो राआ उदयणो जस्स अहं तादेण दिण्णा । ता परप्पेसणदूसिदं वि मे जीविदं एदस्स दंसणेण बहुमदं संजादं ।172

इति सागरिकायाः सुखागमात् प्राप्तिरिति ।

  1. A.T.A. gives here the example of Ratnā:alī first and then that of Veṇīsaṃhāra.

  2. ‘भर्त्रि, परिकुपित इव कुमारो लक्ष्यते ।’ इति च्छाया.

  3. पृ॰ १९
  4. १।१५
  5. ‘नाथ, अश्रुतपूर्वं खलु ईदृशं प्रियवचनम् । तत् पुनः पुनर्भण ।’ इति च्छाया.

  6. N.S.P. khu edaṃ vaaṇaṃ.

  7. ‘कथमयं स राजोदयनो यस्याहं तातेन दत्ता । तत् परप्रेषणदूषितमपि मे जीवितमेतस्य दर्शनेन बहुमतं संजातम् ।’ इति च्छाया.

  8. पृ॰ ४०