33 अथ 256प्रगमनम्—

257यथोत्तरा वाक् *प्रगमो

यथा रत्नावल्याम्—

विदूषकः

258भो वअस्स, दिट्ठिआ वड्ढसे ।

राजा
सकौतुकम्

वयस्य, किमेतत् ।

विदूषकः

259भो, एदं क्खु तं जं मए भणिदं तुमं एव्व आलिहिदो । को अण्णो कुसुमाउहव्ववदेसेण णिण्हवीअदि ।260

इत्यादिना,
परिच्युतस्तत्कुचकुम्भमध्यात् किं शोषमायासि मृणालहार ।
न सूक्ष्मतन्तोरपि तावकस्य तत्रावकाशो भवतः किमु स्यात् ॥261
262इत्यन्तेन राजविदूषकसागरिकासुसंगतानामन्योन्यवचनेनोत्तरोत्तरानुरागबीजोद्धाटनात् 263प्रगमनमिति ।

अथ निरोधः—

हितरोधो निरोधनम् ।

यथा रत्नावल्याम्—

राजा

धिङ् मूर्ख—

प्राप्ता कथमपि दैवात् कण्ठमनीतैव सा प्रकटरागा ।
रत्नावलीव कान्ता मम हस्ताद् भ्रंशिता भवता ॥264
इत्यनेन वत्सराजस्य सागरिकासमागमरूपहितस्य वासवदत्ताप्रवेशसूचकेन विदूषकवचसा निरोधात् निरोधनमिति ।

  1. ‘प्रगयणम्’ इति पाठः.

  2. N.S.P. uttarā vāk pragamanam.

  3. ‘भो वयस्य, दिष्ट्या वर्धसे ।’ इति च्छाया.

  4. ‘भोः, एतत् खलु तद्यन्मया भणितं त्वमेवालिखितः । कोऽन्यः कुसुमायुधव्यपदेशेन निह्नूयते ।’ इति च्छाया.

  5. पृ॰ ६७
  6. रत्ना॰ २।१४
  7. N.S.P. ity anena.

  8. ‘प्रगयणम्’ इति पाठः.

  9. पृ॰ ८५