अथ पुष्पम्—

पुष्पं वाक्यं विशेषवत् ॥ ३४ ॥

यथा रत्नावल्याम्—

राजा सागरिकां हस्ते गृहीत्वा स्पर्शं नाटयति
विदूषकः

268भो 269एसा अपुव्वा सिरी तुए समासादिदा ।270

राजा

वयस्य, सत्यम्—

श्रीरेषा पाणिरप्यस्याः पारिजातस्य पल्लवः ।
कुतोऽन्यथा स्रवत्येष स्वेदच्छद्मामृतद्रवः ॥271
इत्यनेन नायकयोः साक्षादन्योन्यदर्शनादिना सविशेषानुरागोद्धाटनात् पुष्पम् ।

  1. ‘भोः, एषापूर्वा श्रीस्त्वया समासादिता ।’ इति च्छाया.

  2. A.T.A. bho vayassa.

  3. पृ॰ ८२
  4. २।१७