अथ वर्णसंहारः—

281चातुर्वर्ण्योपगमनं वर्णसंहार इष्यते ॥ ३५ ॥

यथा वीरचरिते282 तृतीयेऽङ्के—

परिषदियमृषीणामेष वृद्धो युधाजित् सह नृपतिरमात्यैर्लोमपादश्च वृद्धः ।
36
अयमविरतयज्ञो ब्रह्मवादी पुराणः प्रभुरपि जनकानामद्रुहो याचकास्ते ॥283
इत्यनेन ऋषिक्षत्रियामात्यादीनां संगतानां वर्णानां वचसा रामविजयाशंसिनः परशुरामदुर्नयस्याद्रोहयाच्ञाद्वारेणोद्भेदनाद् वर्णसंहार इति ।

एतानि च त्रयोदश प्रतिमुखाङ्गानि मुखसंध्युपक्षिप्तबिन्दुलक्षणावान्तरबीजमहाबीजप्रयत्नानुगतानि284 विधेयानि । एतेषां च मध्ये परिसर्पप्रशमवज्रोपन्यासपुष्पाणां प्राधान्यम् । इतरेषां यथासंभवं प्रयोग इति ।

  1. ‘चातुर्वर्णो’ इति पाठः.

  2. A.T.A. Mahāvīracarite.

  3. ३।५
  4. A.T.A. omits mahābīja.