अथ क्रमः—
क्रमः संचिन्त्यमानाप्तिर्
  यथा रत्नावल्याम्—
   उपनतप्रियासमागमोत्सवस्यापि मे किमिदमत्यर्थमुत्ताम्यति चेतः । अथवा—301 303भोदि सागरिए, एसो पिअवअस्सो तुमं एव्व उद्दिसिअ उक्कंठाणिव्भरं मंतेदि । ता निवेदेमि से तुहागमणं ।
    
  राजा
    
      
  तीव्रः स्मरसंतापो न तथादौ बाधते यथासन्ने ।
      तपति प्रावृषि सुतरामभ्यर्णजलागमो दिवसः ॥302
    
    
इत्यनेन वत्सराजस्य सागरिकासमागममभिलषत एव भ्रान्तसागरिकाप्राप्तिरिति क्रमः ।विदूषकः
    आकर्ण्य
    
