अथानुमानम्—

अभ्यूहो लिङ्गतोऽनुमा ।

यथा रत्नावल्याम्—

राजा

धिङ् मूर्ख, त्वत्कृत एवायमापतितोऽस्माकमनर्थः । कुतः—308

समारूढा प्रीतिः प्रणयबहुमानात् प्रतिदिनं व्यलीकं वीक्ष्येदं कृतमकृतपूर्वं खलु मया ।
प्रिय मुञ्चत्यद्य स्फुटमसहना जीवितमसौ प्रकृष्टस्य प्रेम्णः स्खलितमविषह्यं हि भवति ॥309
41 विदूषकः

310भो वअस्स, वासवदत्ता किं करिस्सदि त्ति ण जाणामि । सागरिआ उण दुक्करं जीविस्सदि त्ति तक्केमि ।

इत्यत्र प्रकृष्टप्रेमस्खलनेन सागरिकानुरागजन्येन वासवदत्ताया मरणाभ्यूहनमनुमानमिति ।

  1. पृ॰ १२३
  2. ३।१५
  3. ‘भो वयस्य, वासवदत्ता किं करिष्यतीति न जानामि । सागरिका पुनर्दुष्करं जीविष्यतीति तर्कयामि ।’ इति च्छाया.