अथ तोटकम्—

संरब्धं तोटकं वचः ॥ ४० ॥

यथा रत्नावल्याम्—

वासवदत्ता
उपसृत्य

314अज्जउत्त, जुत्तमिणं सरिसमिणं ।

पुनः सरोषम्

अज्जउत्त, उट्ट‏ठेहि । किं अज्जवि अहिजादाए सेवादुक्खमणुभवीअदि । कंचणमाले, एदेण एव्व लदापासेण बंधिअ आणेहि एणं दुट्‏ठबम्हणं । एदं पि दुट्‏ठकण्णअं अग्गदो करेहि ।315

इत्यनेन वासवदत्तासंरब्धवचसा सागरिकासमागमान्तरायभूतेनानियतप्राप्तिकारणं तोटकमुक्तम् ।

42 यथा च वेणीसंहारे—प्रयत्नपरिबोधितः स्तुतिभिरद्य शेषे निशाम् ।316 इत्यादिना, धृतायुधो यावदहं तावदन्यैः किमायुधैः ।317 इत्यन्तेनान्योन्यं कर्णाश्वत्थाम्नोः संरब्धवचसा सेनाभेदकारिण पाण्डवविजयप्राप्त्याशान्वितं तोटकमिति ।

  1. ‘आर्यपुत्र, युक्तमिदं सदृशमिदम् । आर्यपुत्र, उत्तिष्ठ । किमद्याप्यभिजातायाः सेवादुःखमनुभूयते । काञ्चनमाले, एतेनैव लतापाशेन बद्ध्वानयैन दुष्टब्राह्मणम् । एतामपि दुष्टकन्यकामग्रतः कुरु ।’ इति च्छाया.

  2. पृ॰ १३२
  3. ३।३४
  4. ३।४६