अथोद्वेगः—

उद्वेगोऽरिकृता भीतिः

327यथा रत्नावल्याम्—

सागरिका
आत्मगतम्

328कहं अकिदपुण्णेहिं अत्तणो इच्छाए मरिउं पि ण पारीअदि ।329

इत्यनेन वासवदत्तातः सागरिकाया भयमिति उद्वेगः । यो हि यस्यापकारी स तस्यारिः ।

यथा च वेणीसंहारे—

सूतः
श्रुत्वा सभयम्

कथमासन्न एवासौ कौरवराजपुत्रमहावनोत्पातमारुतो मारुतिरनुपलब्धसंज्ञश्च तावदयं महाराजः । भवतु । दूरमपहरामि स्यन्दनम् । कदाचिदयमनार्यो दुःशासन इवास्मिन्नप्यनार्यमाचरिष्यति ।330

इत्यरिकृता भीतिरुद्वेगः ।

  1. A.T.A. gives the illustration from Veṇīsaṃhāra first, and then that from the Ratnā:alī.

  2. ‘कथमकृतपुण्यैरात्मन इच्छया मर्तुमपि न पार्यते ।’ इति च्छाया.

  3. पृ॰ १३४
  4. पृ॰ ९६