अथ संभ्रमः—

शङ्कात्रासौ च संभ्रमः ।

यथा रत्नावल्याम्—

विदूषकः
पश्यन्

331का उण एसा ।

ससंभ्रमम्

कधं देवी वासवदत्ता अत्ताणं वावदेदि ।

राजा
ससंभ्रममुपसर्पन्

क्वासौ क्वासौ ।332

इत्यनेन वासवदत्ताबुद्धिगृहीतायाः सागरिकाया मरणशङ्कया संभ्रम इति ।

44 यथा च वेणीसंहारे—

नेपथ्ये कलकलः
अश्वत्थामा
ससंभ्रमम्

मातुल मातुल, कष्टम् । एष भ्रातुः प्रतिज्ञाभङ्गभीरुः किरीटी समं शरवर्षैर्दुर्योधनराधेयावभिद्रवति । सर्वथा पीतं शोणितं दुःशासनस्य भीमेन ।333

इति शङ्का । तथा
प्रविश्य संभ्रान्तः सप्रहारः
सूतः

त्रायतां त्रायतां कुमारः ।

इति त्रासः । इत्येताभ्यां त्रासशङ्काभ्यां दुःशासनद्रोणवधसूचकाभ्यां पाण्डवविजयप्राप्त्याशान्वितः संभ्रम इति ।

  1. ‘का पुनरेषा । कथं देवी वासवदत्तात्मानं व्यापादयति ।’ इति च्छाया.

  2. पृ॰ १२६
  3. पृ॰ ९३