अथावमर्शः—

क्रोधेनावमृशेद् यत्र व्यसनाद्वा विलोभनात् ।
गर्भनिर्भिन्नबीजार्थः सोऽवमर्श इति 341स्मृतः ॥ ४३ ॥

अवमर्शनमवमर्शः पर्यालोचनम् । तच्च क्रोधेन वा, व्यसनाद्वा, विलोभनेन वा । भवितव्यमनेनार्थेनेति एवम् अवधारितैकान्तफलप्राप्त्यवसायानात्मा गर्भसंध्युद्भिन्नबीजार्थसंबन्धो विमर्शोऽवमर्शः । यथा रत्नावल्यां चतुर्थेऽङ्के342 अग्निविद्रवपर्यन्तो वासवदत्ताप्रसत्त्याप्रसक्त्या निरपायो रत्नावलीप्राप्त्यवसानात्मा343 विमर्शो दर्शितः ।

यथा च वेणीसंहारे दुर्योधनरुधिराक्तभीमसेनागमपर्यन्तः—

तीर्णे भीष्ममहोदधौ कथमपि द्रोणानले निर्वृते कर्णाशीविषभोगिनि प्रशमिते शल्येऽपि याते दिवम् ।
भीमेन प्रियसाहसेन रभसादल्पावशेषे जये सर्वे जीवितसंशयं वयममी वाचा समारोपिताः ॥344
इत्यत्र स्वल्पावशेषे जये 345इत्यादिर्भिर्विजयप्रत्यर्थिभूतसमस्तभीष्मादिमहारथवधादववारितैकान्तविजयावमर्शनादवमर्शनं दर्शितमित्यवमर्थसंधिः ।

  1. N.S.P. -marśo ’ṅgasaṃgrahaḥ.

  2. पृ॰ १८६
  3. N.S.P. nirapāyaratnāvalīprāptyavasāyātmā.

  4. ६।१
  5. N.S.P. omits -bhūta-.