यथोद्देशं लक्षणमाह—

दोषप्रख्यापवादः स्यात्

यथा रत्नावल्याम्—

सुसंगता

346सा खु तवस्सिणी भट्टिणीए उज्जइणिं णीअदित्ति पवादं करिअ उवत्थिदे अद्धरत्ते ण जाणीअदि कहिंपि णीदेत्ति ।

विदूषकः
सोद्वेगम्

347अदिणिग्घिणं क्खु किदं देवीए ।348

पुनः ।349
विदूषकः

350भो वअस्स, मा खु अण्णधा संभावेहि । सा खु देवीए उज्जइणीए पेसिदा । अदो अप्पिअं त्ति ण351 कहिदं ।

राजा

अहो निरनुरोधा मयि देवी ।

इत्यनेन वासवदत्तादोषप्रख्यापनादपवादः ।

यथा च वेणीसंहारे—

युधिष्ठिरः

पाञ्चालक, कच्चिदासादिता तस्य दुरात्मनः कौरवापसदस्य पदवी ?

पाञ्चालकः

न केवलं पदवी । स एव दुरात्मा देवीकेशपाशस्पर्शपातकप्रधानहेतुरुपलब्धः ।352

इति दुर्योधनस्य दोषप्रख्यापनादपवाद इति ।

  1. ‘सा खलु तपस्विनी भाट्टिन्योज्जयिनीं नीयत इति प्रवादं कृत्वोपस्थितेऽर्धरात्रे न ज्ञायते कुत्रापि नीतेति ।’ इति च्छाया.

  2. ‘अतिनिर्घृणं खलु कृतं देव्या ।’ इति च्छाया.

  3. पृ॰ १३९
  4. पृ॰ १४७
  5. ‘भो वयस्य, मा खल्वन्यथा संभावय । सा खलु देव्योज्जयिन्यां प्रेषिता । अतोऽप्रियमिति न कथितम् ।’ इति च्छाया.

  6. N.S.P. omits ṇa.

  7. पृ॰ १५७