अथ द्रवः—
द्रवो गुरुतिरस्कृतिः ॥ ४५ ॥
यथोत्तरचरिते— इत्यनेन लवो रामस्य गुरोस्तिरस्कारं कृतवानिति द्रवः ।
यथा च वेणीसंहारे—
भगवन् कृष्णाग्रज सुभद्राभ्रातः,
इत्यादिना बलभद्रं गुरुं युधिष्ठिरस्तिरस्कृतवानिनि द्रवः ।युधिष्ठिरः
ज्ञातिप्रीतिर्मनसि न कृता क्षत्रियाणां न धर्मो
रूढं सख्यं तदपि गणितं नानुजस्यार्जुनेन ।
तुल्यः कामं भवतु भवतः शिष्ययोः स्नेहबन्धः
कोऽयं पन्था यदसि विगुणो मन्दभाग्ये मयीत्थम् ॥361