रुपकं तत्समारोपाद्

नटे रामाद्यवस्थारोपेण वर्तमानत्वाद् रूपकम् । मुखचन्द्रादिवदित्येकस्मिन्नर्थे प्रवर्तमानस्य शब्दत्रयस्य इन्द्रः पुरंदरः शक्रः इतिवत् प्रवृत्तिनिमित्तभेदो दर्शितः ।

नट इति । यथा मुखे चन्द्रत्वसमारोपात् मुखं चन्द्रः, एवं नटे रामाद्यवस्थारोपात् नटोऽपि रामादिः । मुखचन्द्रादिवदिति । मुखचन्द्रत्वादिवदित्यर्थः । ननु नाट्यरूपरूपकशब्दा यदि भिन्नार्थाः तर्हि 68एकवव्द्यवहारो न स्यात् । अस्ति च सः नाट्यानां लक्षणं संक्षिपामीति, दशरूपानुकारेणेति, आनन्दनिष्यान्दिषु रूपकेष्विति च । अथैकार्थाः, तदा सामानाधिकरण्यं न स्यात् । न हि घटो घट इति सामानाधिकरण्यम् । तत्राह एकस्मिन्निति । 69पर्यवसानस्यैकत्वादेषामेकार्थत्वेन व्यवहारः । प्रवृत्तिनिमित्तभेदाच्च सामानाधिकरण्यम् । यथा परमैश्वर्यं शक्तत्वं विक्रमत्वं चोपाधीकृत्य एकस्मिन्नर्थे प्रवर्तमानस्य इन्द्रादिशब्दत्रयस्य एकार्थत्वं सामानाधिकरण्यं च एवमिहापीति ।

  1. This is the reading in Tri.MS. M.G.T. reads tarhi eka eva vyavahāro. Gr. MS. reads tarhi aikyavyavahāro na syāt. asti ca saṃprati. T.MS. gives as tasyaikavyavahāro na syāt.

  2. Gr.MS. and T.MS. read paryavasānasthānasya.