अथ विचलनम्—
यथा वेणीसंहारे— अर्जुनः तात, अम्ब—388 सकलरिपुजयाशा यत्र बद्धा सुतैस्ते तृणमिव परिभूतो यस्य गर्वेण लोकः । रणशिरसि निहन्ता तस्य राधासुतस्य प्रणमति पितरौ वां मध्यमः पाण्डवोऽयम् ॥ भीमः चूर्णिताशेषकौरव्यः क्षीबो दुःशासनासृजा । भड्क्ता सुयोधनस्योर्वोर्भीमोऽयं शिरसाञ्चति ॥389 इत्यनेन विजयबीजानुगतस्वगुणाविष्करणाद् विचलनमिति ।
तात, अम्ब—388
यथा च रत्नावल्याम्— यौगंधरायणः देव्या मद्वचनात् तथाभ्युपगतः पत्युर्वियोगस्तया सा देवस्य कलत्रसंघटनया दुःखं मया स्थापिता । तस्याः प्रीतिमयं करिप्यति जगत्स्वामित्वलाभः प्रभोः सत्यं दर्शयितुं तथापि वदनं शक्नोमि नो लज्जया ॥390 इत्यनेनान्यपरेणापि यौगंधरायणेन मया जगत्स्वामित्वानुबन्धी कन्यालाभो वत्सराजस्य कृत इति स्वगुणानुकीर्तनाद् विचलनमिति ।
Generating a file for download may take up to a few minutes. Please wait.
This dialog should close automatically when the download has completed.