अथ कृतिः—

कृतिर्लब्धार्थशमनं
61

यथा रत्नावल्याम्—

राजा

को देव्याः प्रसादं न बहु मन्यते ।

वासवदत्ता

426अज्जउत्त, दूरे से मादुउलं । ता तधा करेसु जधा वंधुअणं न सुमरेदि ।427

इत्यन्योन्यवचसा 428लब्धाया रत्नावल्या राज्ञः सुश्लिष्टये उपशमनात् कृतिरिति ।

यथा च 429वेणीसंहारे—

कृष्णः

एते खलु भगवन्तो व्यासवाल्मीकि—430

इत्यादिना अभिषेकमारब्धवन्तस्तिष्ठन्ति । इत्यनेन प्राप्तराज्यस्याभिषेकमङ्गलैः स्थिरीकरणं कृतिः ।

  1. ‘आर्यपुत्र, दूरेऽस्या मातृकुलम् । तत् तथा कुरुष्व यथा बन्धुजनं न स्मरति ।’ इति च्छाया.

  2. पृ॰ १८६
  3. N.S.P. labdhāyāṃ ratnāvalyāṃ.

  4. The reference in this context is not clear.

  5. पृ॰ २०४